Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
१९६
कारकट्याश्रयकाव्यम्
न तृणस्य १ बुसाय २ स्वं मन्तेवाऽशुण्यदम्बुदः। सुखो हितोऽपि पृथव्यै ३ द्यो ४ यंदप्रीणान्न चातकम् ॥६२
न तृणस्येत्यादि । अम्बुदो मेघः पृथ्व्य तात्स्थ्यात्ताच्छब्दय. मिति प्रजाभ्यः सुखः सुखप्रयोजकसस्यादिनिष्पत्तिहेतुत्वात्सुखप्रयोजकोऽपि धोस्तास्थ्यात्ताच्छब्दयमिति स्वर्गवासिनो देवस्य हितः सस्यौषध्यादियज्ञोपकरणनिष्पत्तिहेतुत्वादिष्टोऽपि सन् यत् चातकं स्वात्युदबिन्दुवृत्तिकं तदाख्यं पक्षिविशेषं वर्षणाऽभावान्नाप्रीणाद् नाऽतर्पयत् , अतः स्वं तृणस्य बुसाय वा मन्तेव स्वं तृणादिवदकिञ्चित्करं मन्यमान इवाऽशुष्यज्जलरहितोऽभवत् तनुतां गतो वा । योऽपि ह्यम्बुद इव दानादिना लोकहितो यज्ञादिभिः परलोकहितश्च महानुभावः, चतते यतत इति चातको याचकस्तमशक्त्यादिना काले न प्रीणाति सोऽपि स्वमकिश्चित्करं मन्यमानः शुष्यति खेदात्तनुत्वं याति । शरदि मेघो न वर्षति जलाभावाद्विरलश्च भवति ॥ ६२ ॥
शं पथ्यं भद्रमायुष्यं स्तात्क्षेमोऽर्थश्च सिद्धयतु । राज्ञः १ प्रजाभ्य २ इत्यूचेगस्तिरुधन घनस्वनैः ॥६३॥
शमित्यादि । अगस्ति स्तदाख्यो नक्षत्रविशेषः, उपलक्षणस्वान्मुनिश्च उद्यन् उदयं गच्छन् सन् , मुनिपक्षे ज्ञानेन तपःप्रभृति
१-२ कृदन्तस्य मन्यते योगे षष्ठी, चतुर्थ्यपीतिमते चतुर्थी । ३४ हितसुखयोगे वा चतुर्थीति यथायथं चतुर्थी षष्ठी च ॥ १२ ॥
१-२ मुखाद्यर्थकशमादियोगे चतुर्थी ॥ ६३ ।।

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246