SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १९६ कारकट्याश्रयकाव्यम् न तृणस्य १ बुसाय २ स्वं मन्तेवाऽशुण्यदम्बुदः। सुखो हितोऽपि पृथव्यै ३ द्यो ४ यंदप्रीणान्न चातकम् ॥६२ न तृणस्येत्यादि । अम्बुदो मेघः पृथ्व्य तात्स्थ्यात्ताच्छब्दय. मिति प्रजाभ्यः सुखः सुखप्रयोजकसस्यादिनिष्पत्तिहेतुत्वात्सुखप्रयोजकोऽपि धोस्तास्थ्यात्ताच्छब्दयमिति स्वर्गवासिनो देवस्य हितः सस्यौषध्यादियज्ञोपकरणनिष्पत्तिहेतुत्वादिष्टोऽपि सन् यत् चातकं स्वात्युदबिन्दुवृत्तिकं तदाख्यं पक्षिविशेषं वर्षणाऽभावान्नाप्रीणाद् नाऽतर्पयत् , अतः स्वं तृणस्य बुसाय वा मन्तेव स्वं तृणादिवदकिञ्चित्करं मन्यमान इवाऽशुष्यज्जलरहितोऽभवत् तनुतां गतो वा । योऽपि ह्यम्बुद इव दानादिना लोकहितो यज्ञादिभिः परलोकहितश्च महानुभावः, चतते यतत इति चातको याचकस्तमशक्त्यादिना काले न प्रीणाति सोऽपि स्वमकिश्चित्करं मन्यमानः शुष्यति खेदात्तनुत्वं याति । शरदि मेघो न वर्षति जलाभावाद्विरलश्च भवति ॥ ६२ ॥ शं पथ्यं भद्रमायुष्यं स्तात्क्षेमोऽर्थश्च सिद्धयतु । राज्ञः १ प्रजाभ्य २ इत्यूचेगस्तिरुधन घनस्वनैः ॥६३॥ शमित्यादि । अगस्ति स्तदाख्यो नक्षत्रविशेषः, उपलक्षणस्वान्मुनिश्च उद्यन् उदयं गच्छन् सन् , मुनिपक्षे ज्ञानेन तपःप्रभृति १-२ कृदन्तस्य मन्यते योगे षष्ठी, चतुर्थ्यपीतिमते चतुर्थी । ३४ हितसुखयोगे वा चतुर्थीति यथायथं चतुर्थी षष्ठी च ॥ १२ ॥ १-२ मुखाद्यर्थकशमादियोगे चतुर्थी ॥ ६३ ।।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy