________________
भद्रकरोदयाख्यव्याख्यासहितम्
संयुज्यमानस्येत्यर्थः । भानोः सूर्यस्य विषाऽऽतपेन अर्दिताः अत्यन्तं पीडिताः सन्तः स्वमात्मानं शुने सारमेयाय नाऽमन्यन्त, वाऽथवा बुसं पलालं नाऽमन्यन्त । स्वस्याऽतिकष्टस्थित्या स्वं शुनोऽपि निकृष्टं बुसादप्यसारं मेनिरे इत्यर्थः । शरदि हि चित्रादिनक्षत्रेषु रविसचारः । तत्र च तस्याऽऽतपोऽत्युग्रो दुःसहो भवति प्रायेण ॥ ६० ॥
नाऽनं ' नावं २ शुकं ३ काकं ४ शृगालं ५ मेनिरे वृषम् । पयःपानोन्मदा गोपा महिषं तु शुने ६ तृणम् ७ ॥६१॥
नाऽन्नमित्यादि । गोपा गोपालका युवानः पयःपानोन्मदाः पयसः क्षीरस्य पानेनोन्मदा अतिहृष्टाः सन्तः, अत एव वृषम् , जातावेकत्वम् । गोपतीनित्यर्थः । अन्नं नावं शुकं काकं शृगालं वा न मेनिरे । स्वस्य क्षीरपानेनाऽतिबलिष्ठत्वाद् वृषाणामीपत्करवश्यत्वात्ताननादिभ्योऽपि तुच्छं बुबुधिरे । तु विशेषे । महिषं सैरिभ तु शुने कुक्कुराय तृणं वा मेनिरे । वृषाऽपेक्षयाऽतिबलिष्ठत्वान्महिषस्येति बोध्यम् । शरदि क्षीरप्राचुर्यात्तत्पीत्वा गोपा बलिष्ठा जायन्ते ॥६॥
१-२-३-४-५ अतिकुत्सनेऽपि नावादिवर्जनाद् द्वितीयैष । ६-. नप्रयोगाऽभावास्कुत्सामाखप्रतीतेरतिकुत्सनाऽप्रतीतेश्च । द्वितीयेव न चतुर्थी कुत्सामात्रेऽपि चतुर्थीत्यन्ये । एवञ्च शुने इति चतुर्थी तृणमिति द्वितीया च ॥ ६१ ॥