________________
कारकम्धाश्रयकाव्यम्
-
तोचमाः सन्तः, तेषामसमहशीलत्वात् स्वयंपाकित्वाच्चेति भावः । नीवारेभ्यो मुन्यन्नान्याहत्तुं जग्मुः गतवन्तः । जीर्णजलाशयादाविति बोध्यम् । तत्रैव नीवारलाभादिति ध्येयम् । किन्तु चतुर्मासोपवासे चतुएं मासेषु भवश्वतुर्मासो य उपवासोऽनशनात्मकं तपस्तस्मिन् सत्यपि । चतुरो मासान् यावदनशनं विधायाऽपीति यावत् । ग्राम पुराय वा नेयुः ग्रामं पुरं वोत्तमभिक्षार्थ न जग्मुरित्यर्थः । अपिनाऽ. ल्पोपवासे तु कथैव केति सूच्यते । तापसा हि केचिच्चतुर्मासोपवास कुर्वन्ति, वन्यैरेव चान्नैस्तत्पारयन्ति च, नतूत्तमभिक्षार्थ ग्रामपुरादिकं यान्ति । तेषामतिनैष्ठिकत्वात् । शरदि नीवाराः प्रायेण भवन्ति ताएसाश्च तप: पारयन्ति ॥ ५९ ॥
चित्रां १ स्वाते २ विशाखायै ३ गन्तुं भानोस्त्विषाऽदिताः । यान्तोऽध्वान ४ ममन्यन्त न शुने ५ स्वं न वा बुसम् ५ ॥६० ॥
चित्रामित्यादि । अध्वानं मार्ग यान्तो व्रजन्तः, अध्वगा: प्रवासिन इत्यर्थः । चित्रां तदाख्यनक्षत्रं स्वाते स्तदाख्यनक्षत्रस्य विशाखायै तदाख्यनक्षत्राय च गन्तुः प्राप्तुः, चित्रादिनक्षत्रैः
१-१-३ कृदन्तगत्यर्थयोगे द्वितीयैवेति षष्ठ्येवेति चतुर्थी चेति मतमिति यथायथं द्वितीया षष्ठी चतुर्थी च । ४ गत्यर्थयोगेऽप्राप्ते द्वितीयैव । ५-६ अतिकुत्सने मन्यस्य व्याप्यादा चतुर्थी पक्षे द्वितीया ॥ ६० ॥ .