SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ भद्रकरोदयाख्यव्याख्यासहितम् मिश्चाऽध्यात्मगुणवृद्धिं प्राप्नुवन् सन् राज्ञः प्रजाभ्यश्च, समुच्चयो गम्यः । शं सुखं पथ्यं हितं भद्रमैश्वर्याप्तिरायुष्यमायुर्वृद्धिकरपदार्थः क्षेमो लब्धरक्षणं विपद्रिरहो वा स्ताद् भवतात्, अर्थमिष्टकार्य च सिद्ध्यतु सम्पद्यताम् इत्युक्तप्रकारेण घनस्वनै र्मेघगर्जितैः कृत्वा ऊचे अशीर्वचनमुदाजहा रेवेति लुप्तोत्प्रेक्षा । शरदि हि अगस्तिनक्षत्रमुदेति घना स्वनन्ति । मुनिरपि कश्चिज् ज्ञानादिवृद्धो नृपेभ्यः प्रजाभ्यश्वोक्तप्रकारमाशिषं घनस्वनै गभीरया वाचा दत्ते, तस्य लोकहितेच्छ्रुत्वात् ॥ ६३ श्रेयश्चरायुः कुशलं स्तत्कार्यं सिद्धिमेतु च । पुत्रेभ्यश्च १ स्नुषाणां २ चे - त्यूचुर्बलिम स्त्रियः ॥ ६४॥ १९७ श्रेय इत्यादि । स्त्रियः कुलवृद्धाः स्त्रियो बलिमहे बलिराज्यदिनोत्सवे कार्तिकस्यामारात्रौ शुक्लप्रतिपदि च पुत्रेभ्यश्च स्नुषाणां च पुत्रवधूनां च श्रेयो भद्रमैश्वर्ये च चिरायु दीर्घजीवितं च कुशलं विपद्विलयश्च स्ताद् भवतात् । कार्य प्रयोजनं सिद्धिमेतु सम्पद्यतां चेती - त्थमूचुराशीर्वचनमुदा जहूरुः । शरदि कार्तिकस्याऽमारात्रौ शुक्लप्रदि • पदि च लोका बलिराज्यमहः कुर्वन्ति । तत्र च कुलवृद्धाः स्त्रियो भगिन्यादयश्च प्रणमद्भ्यः पुत्रादिभ्यो भ्रात्रादिभ्यश्च चन्दनादिदानपूर्वकमुक्तप्रकारेणाशीर्वचनमुद्गिरन्ति ॥ ६४ ॥ १-२ भद्राद्यर्थैर्योगे वा चतुर्थीति यथायथ चतुर्थी पक्षे षष्ठी च ||१४|| 26
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy