Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda

View full book text
Previous | Next

Page 229
________________ २१२ - कारकयाश्रयकाव्यम् काले उच्चैः शङ्खो मायते द्विजाश्च वेदं पठन्ति मङ्गलार्थमित्याचारः ॥ ८५ ॥ ढक्कामिश्चक्रिभिवानं : दुःसहं दिग्गजैरपि २ । सोऽस्त्रभृत्कारको यात्रां ३ सुज्ञानो वज्रिणाऽप्यभृत् । ॥ ८६ ढक्काभिरित्यादि । यात्रां विजययात्रां कारकः करिष्यन् , अत एव, अस्त्रभृत् अस्त्रं बाणादिकमुपलक्षणत्वाच्छस्त्रं खड्गादिकं च बिभर्तीति स तादृशः स नृपो मूलराजो दिग्गजैः पौराणिकप्रसिद्धैदिगन्तस्थितै दन्तेषु पृथ्व्युत्तोलकै गजै दिग्गजा इति प्रसिद्ध ईःसहं दुःखेनाऽतिशयेन कर्णपीडाकम्पादिकरत्वात्सह्यत इति तादृशम् , अपिना यत्र तादृशबलवतामतिदूरस्थानामपि तादृशशब्देन पीडा तत्राऽन्येषां दुःसहः स ध्वान इति किमुवक्तव्यमिति सूच्यते । तादृशं ध्वानमुद्धतनादं चक्रिभिः कुर्वतीभि ढक्काभि विजययात्राभेरीभिः कृत्वा वज्रिणा स्वःस्थेनेन्द्रेणाऽपि सुज्ञानोऽल्पेनैव ज्ञेयोऽभूत् । ढक्काध्वनि दिगन्तवत्स्वर्गमपि व्याप्तवानित्याशयः । नृपस्य विजयात्रार्थमस्त्रधारणवेलायां विशेषतो ढक्का वाद्यन्ते ॥ ८६ ॥ मृदङ्गै रुद्धवद्भि २ या ध्वनिनाऽनुकृतो ३ घनः । शिखिभिः शीलिताः केका गतै हर्ष सतां ४ मताः ॥ ८७॥ .. १-२-३-४ डिखल्णकच्योगे षष्ठीनिषेधाद् यथायोगं द्वितीया तृतीया च ॥ ८६ ॥ १-२-३ तक्तवत्वोोंगे षष्ठीनिषेधाद् यथायथं द्वितीया तृतीया च ।

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246