Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
भद्रङ्करोदयाख्य व्याख्यासहितम्
रञ्जनात्कौतुकाच्च पौर्यः पुरस्त्रियः आसनात्फलकाद्यासने उपविश्य एनं नृत्यन्तं केकिंन प्रैक्षन्त सादरमवालोकयन्त । शरद्यपि मयूरा नृत्यन्ति ॥ ६९ ॥
२०१
वर्षात्ययात् प्रभृत्यब्जोद्गमादा २ रभ्य चाssवभौ । अन्य वीणाक्वणाद् ३ भिन्नो वेणुनादा ४ दलिस्वनः ॥७०
वर्षात्ययादित्यादि । वर्षाऽत्ययाद् वर्षाणां वर्षर्त्तेरत्ययोऽपगमस्ततः प्रभृति तत आरभ्य, अब्जोद्गमाद् अब्जानां कमलानामुद्गम उद्भेदस्तत आरभ्य च अलिस्वनः अलीनां भ्रमराणां कमलमधुपानोन्मदानां स्वनो गुञ्जनम्, वीणाक्वणाद् वीणायास्तन्त्र्याः कणः प्रक्वाणस्तदन्यो विलक्षणः, वेणुनादाद् वेणोवाद्यविशेषस्य नादात्स्वनादू भिन्नः विसदृशः, तयोनीदाऽपेक्षयाऽप्यधिकं कर्णप्रियत्वादिति भावः । अत एव, आबभौ वेणुवीणास्वनाऽपेक्षयाऽतिशयेन शुशुभे । अतिशयेन चित्तावर्जकत्वादिति भावः । शरदि कमलानां विकासात्तन्मधुपानोन्मदानां भ्रमराणां गुञ्जनमति मधुरं भवेत् ॥ ७० ॥
गम्येsपि पश्चिमे देशे ग्रामात्प्राच्यां १ ययुर्जनाः । महानवम्या २ अपरेऽह्नि क्रोशात् ३ सीम लङ्घितुम् ॥ ७१ ॥
१-२ प्रभृत्यर्थयोगे पञ्चमी । ३-४ अन्यार्थयोगे पञ्चमी ॥ ७० ॥ १ दिशि दृष्टत्वाद्देशवृत्तिनाऽपि दिक्शब्देन योगे दिक्शब्दयोगे च २ कालावृत्तिदिक्शब्दयोगे पञ्चमी । ३ गम्यमानेऽपि दिक्शब्दे पञ्चमी ॥ ७१ ॥
पञ्चमी ।

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246