Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
भद्रकरोदयाख्यव्याख्यासहितम्
मिश्चाऽध्यात्मगुणवृद्धिं प्राप्नुवन् सन् राज्ञः प्रजाभ्यश्च, समुच्चयो गम्यः । शं सुखं पथ्यं हितं भद्रमैश्वर्याप्तिरायुष्यमायुर्वृद्धिकरपदार्थः क्षेमो लब्धरक्षणं विपद्रिरहो वा स्ताद् भवतात्, अर्थमिष्टकार्य च सिद्ध्यतु सम्पद्यताम् इत्युक्तप्रकारेण घनस्वनै र्मेघगर्जितैः कृत्वा ऊचे अशीर्वचनमुदाजहा रेवेति लुप्तोत्प्रेक्षा । शरदि हि अगस्तिनक्षत्रमुदेति घना स्वनन्ति । मुनिरपि कश्चिज् ज्ञानादिवृद्धो नृपेभ्यः प्रजाभ्यश्वोक्तप्रकारमाशिषं घनस्वनै गभीरया वाचा दत्ते, तस्य लोकहितेच्छ्रुत्वात् ॥ ६३
श्रेयश्चरायुः कुशलं स्तत्कार्यं सिद्धिमेतु च । पुत्रेभ्यश्च १ स्नुषाणां २ चे - त्यूचुर्बलिम स्त्रियः ॥ ६४॥
१९७
श्रेय इत्यादि । स्त्रियः कुलवृद्धाः स्त्रियो बलिमहे बलिराज्यदिनोत्सवे कार्तिकस्यामारात्रौ शुक्लप्रतिपदि च पुत्रेभ्यश्च स्नुषाणां च पुत्रवधूनां च श्रेयो भद्रमैश्वर्ये च चिरायु दीर्घजीवितं च कुशलं विपद्विलयश्च स्ताद् भवतात् । कार्य प्रयोजनं सिद्धिमेतु सम्पद्यतां चेती - त्थमूचुराशीर्वचनमुदा जहूरुः । शरदि कार्तिकस्याऽमारात्रौ शुक्लप्रदि • पदि च लोका बलिराज्यमहः कुर्वन्ति । तत्र च कुलवृद्धाः स्त्रियो भगिन्यादयश्च प्रणमद्भ्यः पुत्रादिभ्यो भ्रात्रादिभ्यश्च चन्दनादिदानपूर्वकमुक्तप्रकारेणाशीर्वचनमुद्गिरन्ति ॥ ६४ ॥
१-२ भद्राद्यर्थैर्योगे वा चतुर्थीति यथायथ चतुर्थी पक्षे षष्ठी च ||१४||
26

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246