SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २१. कारकव्याश्रयकाध्यम् कर्मभूतस्य दुरात्मभिः दुर्दुष्टो द्रोहादिसङ्गतत्वादात्माऽन्तःकरणं येषां लैस्तादृशै र्दुर्जनैः कर्तमि मित्रस्य सख्युः कर्मभूतस्येव त्यागोऽपनयनम् अभूदिति शेषः । यथा दुरात्मानो मित्राणि त्यजन्ति तथा मृगाः शृङ्गाणि तत्यजुरित्यर्थः । तथा, उक्ष्णां बलीवदानां कर्तृणां रोधसस्तटस्य कर्मभूतस्य बिभित्सा भेत्तुमिच्छा भेदिका विलेखनं च पयसां जलानां वर्षौं दृष्टजलोच्छलितनदीपूराणां रोधसो बिभित्सा भेदिकेव च, अभूदिति शेषः । शरदि मृगाः शृङ्गाणि पातयन्ति, वृषभाश्च पुष्टा मदाद वप्रक्रीडायां तटानि भिन्दन्ति )) ८२ )) स्तुत्यमान्याऽनुयानीयगातव्याऽऽदेयसद्गुणः । नृणां १ देवश्च २ स तदा राजा यात्रां प्रचक्रमे ॥ ८३॥ स्तुत्येत्यादि । तदा तादृशे शरत्काले विजृम्भमाणे स प्रस्तुतो नृणां जनानां कर्तृणां देवैः सुरैः कर्तृभिश्च स्तुत्यमान्याऽनुयानीयगातव्याऽऽदेयसद्गुणः स्तुत्याः प्रशस्या मान्याः पूजनीया अनुयानीयाः अनुसरणीया गातव्याः सुस्वरं कीर्तनीया आदेया ग्राह्याश्च सन्त उत्तमा गुणाः शौर्योदायर्यादयोऽतिशया यस्य स तादृशो राजा मूलराजाख्यो नृपो यात्रां ग्राहरिपुं प्रति प्रयाणकं प्रचक्रमे प्रारब्धवान् । शरत्कालस्य प्रयाणोचितत्वादिति भावः ॥ ८३ ॥ १-२ कृत्यान्तयोगे कर्तरि वा षष्ठति यथायथं पष्ठी तृतीया
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy