Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
१७४
कारकड्याश्रयकाव्यम्
भागेषु, सर्वाङ्गं व्याप्येत्यर्थः । पुलकभृद् हृष्टरोमा । शत्रुस्मरणेन तद्विजिगीषया जातोत्साहवशात्सात्त्विकभावोदयात्सर्वाङ्गेषु रोमाञ्चाञ्चित इत्यर्थः । भुजावुभयतो द्वयोबाह्वो ईशं दृष्टिं क्षिपन् कुर्वन् , यस्य कस्याऽपि शत्रोनिग्रहे समर्थों मे भुजाविति दर्पण तौ दृष्टया सम्मानयनित्यर्थः । नृपः उदस्थात्सिंहासनादुत्थितवान् । अथो अनन्तरं तं नृपमभितः उभयतः स्थिती निषण्णौ तौ जेहुलजम्बको सचिवा उदस्थाताम् । तान् नृपाऽमात्यान् परितः सर्वतः सभागृहाबहिः स्थितो जनश्चोत्थितवान् । सभा विसृष्टेति यावत् । अत्र नृपस्य पुल. केन भुजावलोकनेन च प्रस्थाननिश्चयो ध्वन्यते ॥ ३२ ॥
___ अथ दिग्विजययात्राभूमिकामारचयन्नादावनुकूलत्वाच्छरदं वर्ण. यन्नाह
अथ १ द्यामभि शुभ्राऽभ्रा सुनीराऽभि सरःसरः २ । अभि दिग्विजयं ३ साधुरुपतस्थे शरत्क्षणात् ॥ ३३ ॥ ___ अथेत्यादि । अथ ग्राहरिपुमभि यानमन्त्रणानन्तरं यां व्योम अभि लक्षीकृत्य, व्योम्नीति यावत् । शुभ्राभ्रा शुभ्राणि वर्षत्तौं वृष्टत्वान्न्यूनजलतया विशदान्यभ्राणि मेघा यस्यां सा, धवलजलधरखण्डमण्डिता, सरःसरः तडागं तडागमभि व्याप्य, वीप्सायां द्विरुक्तिः । सुनीरा स्वच्छसलिला । अल्पातपत्वात्सुलभपेयजलत्वाच्च दिग्यात्रानुकूलेत्याशयः । अत एव दिग्विजयं लक्षणया दिग्विजययान
१-२-३ यथाक्रम लक्षणवीप्स्यत्यम्भूर्थार्थेषु अभिशब्दयोगे द्वितीया ॥३३

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246