Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
भद्रकरोदयारव्यच्या रव्यात हितम्
१७७
रिति मिलितार्थः । सरःसु कमलानां विजृम्भणाद्धेतोरिति यावत् । सितच्छदा हंसा यद्यस्मादेयुरागताः शरदीति लभ्यते । वर्षौं मेघमयान्मानसं गता हंसाः पुनः शरदि पश्वादागच्छन्तीति कविसमयः । तेन हेतुना शरदं तदाख्यमृतुमनु ऋतवो हेमन्ताद्याः, शरदपेक्षया हेमन्ताद्या हीनाः, तत्र सितच्छदानामनागमनात्कमलानां नाशादशोभनत्वाच्चेत्याशयः । गङ्गामुप आपगा नद्य इव, यथा नद्यो गङ्गाया हीनास्तथेत्यर्थः । अनूपावपकर्षे । यो हि महतं आगमयति शोभा सम्पन्न स एव महानिति भावः ॥ ३६ ॥
"
शालीन् १ पक्कान् सप्रमोदं २ रक्षन्त्यो गोपिका दिनम् ३ । क्रोशे ४ व्यस्तारयन् गीती नीतिं गोदोह ५ मप्ययुः ॥३७॥
शालीनित्यादि । गोपिकाः शालिगोप्यो दिनं व्याप्य, अखिलं दिनमित्यर्थः । पक्वान् परिणतान् शालीन् कलमादिधान्यानि, शरदि शालीनां पाकादिति भावः । तादृशपक्वशालिदर्शनेन सप्रमोदं सोल्लासं यथा स्यात्तथा । क्षेत्रे पक्वश। लिदर्शनेन क्षेत्रपतीनां प्रमोद : सहज :, श्रमसाफल्यादिति भावः । रक्षन्त्यः शुकादिभ्यो गोपायन्त्यः, गीतीगीनानि क्रोशं व्याप्य व्यस्तारयन्, तथोच्चैर्गीयन्ति स्म यथा क्रोशं यावच्छ्रुतिरित्यर्थः । यद्वा गोपिकाः पक्वान् शालीन् रक्षन्त्यः सप्रमोदं दिनं क्रोश गीतीर्न्यस्तारयन्नित्यन्वयः । अखिलं दिन
द्वितीया ।
१ कर्मणि द्वितीया । २ क्रियाविशेषणत्वाद् द्वितीया । ३-४ व्याप्तौ ५ मतान्तरेण व्याप्तौ द्वितीया ॥ ३७ ॥

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246