Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda

View full book text
Previous | Next

Page 202
________________ भनकरोदयाल्यव्याख्यासहितम् १८५ दृष्टिस्थिरीकरणायैकाक्षसङ्कोचः प्रतीत इति बोध्यम् । तथा पदा चरणेन खञ्जः पशवदुपलक्ष्यमाणः । पॉवदेवः शनैर्विकृतं च पादन्यासादिति भावः । तादृशः सन्नस्थात् । तत्समर्थयति--खला उग्राः प्रायेण बाहुल्येन मायिनः शठाः, भवन्तीति शेषः । अरदि सरित्सरःपल्वलादितटेषु मत्स्यानतुं बकाः सञ्चरन्ति ॥ ४७ ॥ गोत्रेण : पुष्करावर्त ! किं त्वया २ गर्जितैः ३ कृतम् ।। विद्युताऽलं ४ भवत्वद्धि ५ हंसा ऊचुन्विदं धनम् ॥४८॥ गोत्रेणेत्यादि । गोत्रेण कुलेन पुष्करावर्त ! पुष्कराव ख्यख्यातकुलोत्पन्न ! मेध !, त्वया किम् ?, किमिति क्षेपे । न त्वया किमपि प्रयोजनमित्यर्थः । किं कृतमलंभवत्वित्याद्यव्ययं प्रतिषेधे प्रयुज्यते । तथा तव, गर्जितैः स्तनितैः कृतम् , निष्प्रयोजनं गर्जितमित्यर्थः । विद्युता तडिताऽलम् । तडिन्निष्प्रयोजनेत्यर्थः । अद्धि जलै भवतु, जलं निष्प्रयोजनमित्यर्थः । वर्षौं प्रचुरवृष्टेजेलाकाङ्क्षाऽभावादिति भावः । अत एव, अवसराऽपगमान्निष्फलत्वाच्च मेघादिनाऽलमिति बोध्यम् । इदमुक्तप्रकारं वचनं हंसा धनं मेघभूचुर्नु कथितवन्त इव । कथमन्यथा ते उच्चै रुवन्ति मेघादयश्च शनैः। शरदि हंसा रुवन्ति, मेघादीनां चाऽल्पतेति तात्पर्यम् ॥ ४८ ॥ १ प्रकारवतः प्रकारैः प्रकारवदर्थयुजः ख्यातेः प्रकारवतस्तृतीया । २३-४-५ निषेधे कृतादियोगे तृतीया ॥ ४८ ॥

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246