Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
भद्रकरोदयाख्यव्याख्यासहितम्
कार्त्स्न्येना १ ऽब्जवनोद्भेदे सुखेना २sस्थुः सितच्छदाः । दुःखेना ३ ऽब्दले प्राप्ये कष्टेना " ऽऽसंश्च चातकाः || ४५||
Jai
कात्स्न्र्त्स्न्येनेति । शरदि कात्स्न्र्त्स्न्येन सामस्त्येन सह अब्जवनोद्भेदे अब्जानां कमलानां वनानां समूहानामुद्भेदे विकासे सति सितच्छदा हंसाः सुखेनाsक्लेशेन अस्थुस्तिष्ठन्ति स्म । भोज्यस्य प्राचुर्यात्सौ -- लभ्याच्चेति भावः । वर्षर्तौ तु तद्दौर्लभ्याद् दुःखेनेत्याकूतम् । किन्तु अब्दजले अब्दस्य मेघस्य जले वृष्टे जलबिन्दौ दुःखेन वर्षस्याल्पत्वाकदाचित्प्राप्ये लभ्ये, दौर्लभ्ये सति । शरदि हि कदाचिदेव मेघा वर्षन्तीति भावः । चातकास्तदाख्या वर्षोदबिन्दुमात्रवृत्तयः पक्षिवि - शेषा वृत्तिदौर्लभ्यात्कष्टेन कष्टपूर्वकमासनस्थुः । सर्वो हि वृत्तिसौकर्ये सुखी तद्दौष्कर्ये च दुःखी भवति । शरदि हि कमलानि विकचानि हंसा: सुखममा वर्षौर्लभ्यं चातककूजितानि च जातानि ॥४५॥
सस्येष्वाप्येष्वनायासेना १ ssप्येऽनायास २ मम्बुनि । पान्थाः पथि सुखं ३ प्रोषु दुःख ? मूषुश्च तत्प्रियाः ॥ ४६ ॥
सस्येष्वित्यादि । सस्येषु क्षेत्रगतेषु धान्येषु अनायासेन सुखेन आप्येषु प्राप्येषु सत्सु । शरदि सस्यानां पाकात्तानि सुलभानीति भावः । तथा अम्बुनि जलेऽनायासं सुकरतयाऽऽप्ये प्राप्ये
१ सहार्थे तृतीया । २- ३-४ एष्वपि क्रियया सुखादेः सहार्थ इति तृतीया ॥ ४५ ॥
१ सहार्थे तृतीया । २-३-४ क्रियाविशेषणत्वाद् द्वितीया ॥ ४६ ॥

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246