Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda
View full book text
________________
भद्रकरोदयाख्यव्याख्यासहितम्
सम्प्रायच्छदित्यादि । हंसो यद् बिसं मृणालं हंस्यै स्वप्रियायै सम्प्रायच्छद्ददौ तत् हंसदत्तं बिसं तन्मुदे तस्या हंस्या मुदे हर्षायाऽभवत् । तत्समर्थयन्नाह - अथवेति । आत्मने स्वस्मै रोचनात् रोचते इत्येवंशीलो रोचन स्तस्मात्प्रियाल्लब्धं प्रेम्णा प्राप्तं किमपि वस्तु, कस्मै न स्वदते रोचते । काक्वा प्रियेण लब्धं सर्वस्याऽपि मु जायते इत्यर्थः । शरदि हंसानामागमात्तत्केलिरपि प्रवर्त्तते ॥ ५३ ॥
१८९.
जज्ञे स्वात्यम्बु मुक्ताभ्यो १ दुग्धं दध्ने २ न्वकल्पत । रिक्तोऽपि न ययौ मेघः शरदे ३ धारयन् ऋणम् ॥५४ ||
जज्ञे इत्यादि । स्वयम् स्वाती लक्षणया स्वातिनक्षत्रयुक्त--. सूर्ययुक्तकालेऽम्बु वृष्टं जलं मुक्ताभ्यो जज्ञे मुक्तारूपविकारमापन्नम् । स्वात्यम्बु शुक्तिमुखे पतितं मुक्ता सम्पद्यत इति लोकप्रसिद्धिरिति बोध्यम् । न्वित्युपमायाम् । यथा दुग्धं क्षीरं दध्नेऽकल्पत दधिरूपविका रमा पन्नं तथेत्यर्थः । शरदि दुग्धं दधि च कालान्तराऽपेक्षया प्रशस्तं च भवति । किञ्च रिक्तोऽपि जलरहितोऽपि मेघः शरदे तदाख्यत्वे ऋणं धारयन्निवेति लुप्तोत्प्रेक्षा । न ययौ किन्तु तस्थावेव । ऋणग्रस्तो ह्युत्तमणाऽधीनो भवतीति ऋणमधमर्ण धरति, तच्च तच्छोधनाऽशक्तत्वाद्धारयन्निवेत्यर्थः । ततश्च यथा ऋणं धारयन् तदविशोध्य न गच्छति, रिक्तत्वाचच्छोधनाsशक्तेः, तथा मेघोऽपि
१ - २ क्लुप्यर्थयोगे विकारे चतुर्थी । ३ धारेर्योगे उत्तमर्णे चतुर्थी ॥ ५४ ॥
25

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246