Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda

View full book text
Previous | Next

Page 204
________________ भद्रङ्करोदयाख्यव्याख्यासहितम् १८७ गोमहिष्यादिष्वपि, अवबद्धाः तत्पराः करदाने करो राजप्रायो भागस्तदाने उत्सुकास्तत्पराः, प्रस्तावात्कर्षका इति लभ्यते । कर. भुक्त्यै, द्विद्रोणान् द्विद्रोणान् , वीप्सायां द्विरुक्तिः । आढकचतुष्टयानाढकचतुष्टयान् व्रीहीन धान्यानि द्विद्रोणे विद्रोणान् द्विद्रोणान् तिलांश्च ददुः । प्रस्तावात्करोग्राहकराजपुरुषेभ्य इति गम्यते । तृतीययैव वीप्साया उक्तत्वान्न द्विरुक्तिः । शरदि सस्यनिष्पत्तौ कर्षकाः करं ददति ॥ ५० ॥ क्रौश्चान् सहस्रं सहस्रं पञ्चकेना' ऽन्वजीगणन् । सहस्रेण २ शुकान् गोप्यः पञ्चकं पञ्चकं रसात् ॥५१॥ क्रौञ्चानित्यादि ! गोप्यः शालिगोप्ठ्यो युवतयः सहस्र सहस्रं सहस्रशः कौश्चान् तदाख्यपक्षिविशेषान् रसात् पक्षिसमूहदर्शनजन्याद् हर्षात्कौतुकाच्च पञ्चकेन पञ्चसङ्ख्यापरिच्छिन्नौचकरासिना, एकैकराशौ पञ्च पञ्च क्रौञ्चान् कृत्वेत्यर्थः । मनोविनोदार्थमिति बोध्यम् । अन्वजीगणन् गणयामासुः । न केवलं क्रौश्चानेव, किन्तु सहस्रेण सहस्रसङ्ख्याकान् सहस्रसङ्ख्याकान् शुकान् कीरानपि पञ्चकं पञ्चकं पञ्चानां राशिं पञ्चानां राशिमन्वजीगणन् । एतेन शरदि क्रौञ्चानां शुकानां च बाहुल्यं सूच्यते ॥ ५१ ॥ १-२ दिनोणादित्वाद्वीप्सायां तृतीया ॥ ५ ॥

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246