________________
भद्रङ्करोदयाख्यव्याख्यासहितम्
१८७
गोमहिष्यादिष्वपि, अवबद्धाः तत्पराः करदाने करो राजप्रायो भागस्तदाने उत्सुकास्तत्पराः, प्रस्तावात्कर्षका इति लभ्यते । कर. भुक्त्यै, द्विद्रोणान् द्विद्रोणान् , वीप्सायां द्विरुक्तिः । आढकचतुष्टयानाढकचतुष्टयान् व्रीहीन धान्यानि द्विद्रोणे विद्रोणान् द्विद्रोणान् तिलांश्च ददुः । प्रस्तावात्करोग्राहकराजपुरुषेभ्य इति गम्यते । तृतीययैव वीप्साया उक्तत्वान्न द्विरुक्तिः । शरदि सस्यनिष्पत्तौ कर्षकाः करं ददति ॥ ५० ॥
क्रौश्चान् सहस्रं सहस्रं पञ्चकेना' ऽन्वजीगणन् । सहस्रेण २ शुकान् गोप्यः पञ्चकं पञ्चकं रसात् ॥५१॥
क्रौञ्चानित्यादि ! गोप्यः शालिगोप्ठ्यो युवतयः सहस्र सहस्रं सहस्रशः कौश्चान् तदाख्यपक्षिविशेषान् रसात् पक्षिसमूहदर्शनजन्याद् हर्षात्कौतुकाच्च पञ्चकेन पञ्चसङ्ख्यापरिच्छिन्नौचकरासिना, एकैकराशौ पञ्च पञ्च क्रौञ्चान् कृत्वेत्यर्थः । मनोविनोदार्थमिति बोध्यम् । अन्वजीगणन् गणयामासुः । न केवलं क्रौश्चानेव, किन्तु सहस्रेण सहस्रसङ्ख्याकान् सहस्रसङ्ख्याकान् शुकान् कीरानपि पञ्चकं पञ्चकं पञ्चानां राशिं पञ्चानां राशिमन्वजीगणन् । एतेन शरदि क्रौञ्चानां शुकानां च बाहुल्यं सूच्यते ॥ ५१ ॥
१-२ दिनोणादित्वाद्वीप्सायां तृतीया ॥ ५ ॥