SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ कारकधाश्रयकाव्यम् मघाभिः १ पायसं श्राद्धं मघासु २ ब्रह्मचर्यवत् । " श्रुत्या ३ स्मृतौ च प्रसिता विदधुर्विधिनो ५ त्सुकाः॥४९॥ मघाभिरित्यादि । द्विजा इति प्रस्तावाल्लभ्यते । श्रुत्या वेदे स्मृती मनुयाज्ञवल्क्यायुक्तधर्मसंहितायां च प्रसिता नित्यसम्बद्धाः, श्रुतिस्मृत्यभ्यासपरायणा इत्यर्थः । अत एव, विधिना विहितकर्मणि उत्सुका अत्यन्तं व्यापृताः, यथाविधि विहितकर्मपरायणा इत्यर्थः । अधीतवेदादि हि विहितकर्मपरायणो भवतीति भावः । मघासु चन्द्रयुक्तमघायुक्तकाले ब्रह्मचर्यवत् ब्रह्मचर्यमिव, मघाभिश्चन्द्रयुक्तमघानक्षत्रयुक्तकाले पायसं पयःसंस्कृतान्नसम्पाद्य श्राद्धं पितृकर्म विदधुश्चकुंः । शरदि पितृपक्षे द्विजाः श्राद्धं कुर्वन्ति ब्रह्मचर्य च पालयन्ति ॥ ४९ ॥ उत्सुकाः करदाने ऽवबद्धाः कृष्या २ पशुष्व ३ पि । बीहीन् द्विद्रोणान् द्विद्रोणान् द्विद्रोणैश्च तिलान् ददुः ॥ ५० ॥ उत्सुक़ा इत्यादि। कृष्या कृषौ, क्षेत्रकर्षण इत्यर्थः । पशुषु १-२ काले नक्षत्रवाचिन आधारे वातृतीया, पक्षे सप्तमी । ३४-५ प्रसितादियोगे आधाराद्वा तृतीयेति यथायथं तृतीया सप्तमी च ॥ ४९ १-२-३ उत्सुकादियोगे यथायथं तृतीया सप्तमी च । ४-५ व्याप्ये द्विद्रोणादिभ्यो वा तृतीया, पक्षे द्वितीया ॥ ५० ॥
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy