________________
भनकरोदयाल्यव्याख्यासहितम्
१८५
दृष्टिस्थिरीकरणायैकाक्षसङ्कोचः प्रतीत इति बोध्यम् । तथा पदा चरणेन खञ्जः पशवदुपलक्ष्यमाणः । पॉवदेवः शनैर्विकृतं च पादन्यासादिति भावः । तादृशः सन्नस्थात् । तत्समर्थयति--खला उग्राः प्रायेण बाहुल्येन मायिनः शठाः, भवन्तीति शेषः । अरदि सरित्सरःपल्वलादितटेषु मत्स्यानतुं बकाः सञ्चरन्ति ॥ ४७ ॥
गोत्रेण : पुष्करावर्त ! किं त्वया २ गर्जितैः ३ कृतम् ।। विद्युताऽलं ४ भवत्वद्धि ५ हंसा ऊचुन्विदं धनम् ॥४८॥
गोत्रेणेत्यादि । गोत्रेण कुलेन पुष्करावर्त ! पुष्कराव ख्यख्यातकुलोत्पन्न ! मेध !, त्वया किम् ?, किमिति क्षेपे । न त्वया किमपि प्रयोजनमित्यर्थः । किं कृतमलंभवत्वित्याद्यव्ययं प्रतिषेधे प्रयुज्यते । तथा तव, गर्जितैः स्तनितैः कृतम् , निष्प्रयोजनं गर्जितमित्यर्थः । विद्युता तडिताऽलम् । तडिन्निष्प्रयोजनेत्यर्थः । अद्धि जलै भवतु, जलं निष्प्रयोजनमित्यर्थः । वर्षौं प्रचुरवृष्टेजेलाकाङ्क्षाऽभावादिति भावः । अत एव, अवसराऽपगमान्निष्फलत्वाच्च मेघादिनाऽलमिति बोध्यम् । इदमुक्तप्रकारं वचनं हंसा धनं मेघभूचुर्नु कथितवन्त इव । कथमन्यथा ते उच्चै रुवन्ति मेघादयश्च शनैः। शरदि हंसा रुवन्ति, मेघादीनां चाऽल्पतेति तात्पर्यम् ॥ ४८ ॥
१ प्रकारवतः प्रकारैः प्रकारवदर्थयुजः ख्यातेः प्रकारवतस्तृतीया । २३-४-५ निषेधे कृतादियोगे तृतीया ॥ ४८ ॥