________________
१८४
कारकद्याश्रयकाव्यम्
सति । सर्वत्रैव निर्मलजलसद्भावादिति भावः । पान्था अध्वगाः पथि मार्गे सुखं यथास्यात्तथा प्रोषुः प्रवासं कृतवन्तः । प्रवासे हि पथ्यशनपानसौलभ्यं सुखमिति भावः । किन्तु, तत्प्रियास्तेषां पान्थानां प्रियाः प्रियतमाः स्त्रियो दुःखं यथा स्यात्तथा ऊषुस्तिष्ठन्तिस्म । प्रियविरहो हि प्रियाया दु:खहेतुरिति भावः । शरदि सस्यानि जलानि च सुलभानि भवन्ति, वर्षाऽपगमात्पान्थाः सौकर्यात्सुखं प्रवसन्ति, अत एव तत् स्त्रियो विरहाकुला स्तिष्ठन्तीति ॥ ४६ ॥
जत्यो १ ग्रोऽनु तिमीन् वप्रेSस्थात्प्रकृत्या २ शठो बकः ।
अक्ष्णा ३ काणः पदा ४ खञ्जः खला: प्रायेण ५ मायिनः ॥ ४७ ॥
जात्येत्यादि । जात्या जन्मनोग्रश्चण्ड, जन्मन एव निर्दय इति यावत् । मत्स्यादिहिंसासाध्यवृत्तिकयोनावुत्पत्तेरिति भावः । तथा प्रकृत्या स्वभावेन शठो वञ्चकः, मत्स्या मा ज्ञासिपुरिति शनैश्चारादिमत्स्यवञ्चनव्यापारपटुरित्यर्थः । तादृशो वकस्तदाख्यः पक्षिविशेषः, वप्रे नदीतडागादितटे तिमीन् मत्स्याननु लक्षीकृत्याऽक्ष्णा नेत्रेण काण: जलान्तर्मत्स्यं द्रष्टुं दृष्टेरेकत्र लक्ष्ये स्थिरीकरणाय सङ्कोचितैककनेत्रत्वात्काणवदुपलक्ष्यमाणः । जलाऽन्धकाराद्यन्तरितं वस्तु द्रष्टुं
१-२-३-४–५ प्रकारवतः प्रकारैः प्रकारवदर्थयुजः ख्यातेः प्रकारपतस्तृतीया ॥ ४७ ॥