SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ कारकड्याश्रवकाव्यम् संजानाना गुणैः १ प्रेम २ संजानन्तः पुरा रतेः ३ । संपायच्छन्त दासीमि ४ /हीन ग्रामीणदारकाः ॥५२॥ ___ संजानाना इत्यादि । ग्रामीणदारकाः ग्रामीणानां ग्राम्याणां कर्षकप्रभृतीनां दारकाः पुत्राः, ग्राम्ययुवान इत्यर्थः । गुणैदासीनां यौवनलावण्यादिभि विशेषैः प्रेम राग संजानाना जानन्तः, यत्र हि यौवनलावण्यादिकं तत्रैव प्रेम ग्राम्याणामिति तेषां यौवनादिकमेव प्रेम नत्वन्यदज्ञत्वादित्याकूतम् । तथा पुरा पूर्व दासीष्वनुभूताया रते. सम्भोगस्य संजानन्तः स्मरन्तः, पक्वेषु शालिषु व्रीहीन् दास्यामीति पुरा रतिकाले प्रतिज्ञातं स्मरन्त इत्यर्थः । तादृशाः सन्तः दासीभिदासीभ्यो बहीन धान्यानि संपायच्छन्त ददुः। रतिवेतनरूपेण परितोषार्थ वेति बोध्यम् । ग्राम्या हि धर्माऽनभिज्ञा अधामपि दासी स्मयन्ति, शरदि शालिपाकाच्च ब्रीह्यादिदानेन ताः परितोषयन्ति च ॥ ५२ ॥ सम्प्रायच्छद् विसं हंस्यै १ हंसो यत्तन्मुदे २ ऽभवत् । आत्मने ३ रोचनाल्लब्धं कस्मै ४ न स्वदतेऽथ वा ॥ ५३॥ १-२ सम्पूर्वस्य जानातेरस्मृत्यर्थस्य व्याप्याद्वा तृतीयेति यथायथं तृतीया द्वितीया च । ३ स्मृत्यर्थत्वातृतीया नेति षष्ठी। ४ सम्प्रपूर्वस्य दाम उद्देश्यस्याऽधम्य तृतीया ॥ ५२ ॥ १ अधयाऽभावात्सम्प्रदाने चतुर्थी । २ तादर्थ्य चतुर्थी । ३-४ रुपानां योगे प्रेये चतुर्थी ॥ ५३ ॥
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy