SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ भद्रकरोदयारव्यच्या रव्यात हितम् १७७ रिति मिलितार्थः । सरःसु कमलानां विजृम्भणाद्धेतोरिति यावत् । सितच्छदा हंसा यद्यस्मादेयुरागताः शरदीति लभ्यते । वर्षौं मेघमयान्मानसं गता हंसाः पुनः शरदि पश्वादागच्छन्तीति कविसमयः । तेन हेतुना शरदं तदाख्यमृतुमनु ऋतवो हेमन्ताद्याः, शरदपेक्षया हेमन्ताद्या हीनाः, तत्र सितच्छदानामनागमनात्कमलानां नाशादशोभनत्वाच्चेत्याशयः । गङ्गामुप आपगा नद्य इव, यथा नद्यो गङ्गाया हीनास्तथेत्यर्थः । अनूपावपकर्षे । यो हि महतं आगमयति शोभा सम्पन्न स एव महानिति भावः ॥ ३६ ॥ " शालीन् १ पक्कान् सप्रमोदं २ रक्षन्त्यो गोपिका दिनम् ३ । क्रोशे ४ व्यस्तारयन् गीती नीतिं गोदोह ५ मप्ययुः ॥३७॥ शालीनित्यादि । गोपिकाः शालिगोप्यो दिनं व्याप्य, अखिलं दिनमित्यर्थः । पक्वान् परिणतान् शालीन् कलमादिधान्यानि, शरदि शालीनां पाकादिति भावः । तादृशपक्वशालिदर्शनेन सप्रमोदं सोल्लासं यथा स्यात्तथा । क्षेत्रे पक्वश। लिदर्शनेन क्षेत्रपतीनां प्रमोद : सहज :, श्रमसाफल्यादिति भावः । रक्षन्त्यः शुकादिभ्यो गोपायन्त्यः, गीतीगीनानि क्रोशं व्याप्य व्यस्तारयन्, तथोच्चैर्गीयन्ति स्म यथा क्रोशं यावच्छ्रुतिरित्यर्थः । यद्वा गोपिकाः पक्वान् शालीन् रक्षन्त्यः सप्रमोदं दिनं क्रोश गीतीर्न्यस्तारयन्नित्यन्वयः । अखिलं दिन द्वितीया । १ कर्मणि द्वितीया । २ क्रियाविशेषणत्वाद् द्वितीया । ३-४ व्याप्तौ ५ मतान्तरेण व्याप्तौ द्वितीया ॥ ३७ ॥
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy