________________
१७८
कास्कव्याश्रयकाव्यम्
मुच्चैर्गीयन्त्य एव तस्थुरित्यर्थः । गोदोहं गावो दुह्यन्तेऽस्मिन् काले तं सायंकालमभिव्याप्याऽपि यद्वा गावो दुबन्ते यावता कालेन तावन्तं कालमपि, अर्ति गानखेदं न ययुः प्रापुः । सप्रमोदं यद्विधीयते तत्र न खेदानुभव इति भावः ॥ ३७ ॥
पारायणं नवाहेना १ ऽधीत्य क्रोशेन चाऽऽशिषम् । गोदोहेन. ३ द्विजा याज्यानभ्यषिञ्चन् यथाविधि ।। ३८ ।।
पारायणमित्यादि । द्विजा ब्राह्मणा नवाहेनाऽऽश्विन शुक्ले प्रतिपदात आरभ्य नवर्मी यावन्नवाहानि व्याप्य पारायणं पारोऽय्यते गम्यतेऽनेनेति तद्दुर्गासप्तशतीदेवीभागवतादिकमधीत्य पाठेन समाप्य, क्रोशेन यावता कालेन क्रोशो गम्यते तावन्तं कालं व्याप्याऽऽशिषमाशीर्मन्त्रं च, अधित्योच्चार्य गोदोहेन यावता कालेन गौर्दह्यते तावन्तं कालं व्याप्य यथाविधि विधिपूर्वकं याज्यान् नृपादीन् यजमानान् अभ्यषिञ्चन् अभिषेकमन्त्रेणाऽभिषेकं चक्रुः । शरदि द्विजा आश्विनशुक्ल प्रतिपदात आरभ्य कुम्भं यथाविधि स्थापयित्वा नवाहं यावद्दुर्गासप्तशत्या दिपारायणं कुर्वन्ति साशीर्वचनं यजमानानभिषिञ्चन्ति शुभोदर्काय । तत्र प्रायेणाऽऽशीर्मन्त्रोच्चारणे यावता कालेन कोशो गम्यते तावान्, अभिषेके च यावता कालेन गौर्दुह्यते तावान् कालश्चाऽत्येतीति बोध्यम् ॥ ३८ ॥
१- २ फलसिद्धौ गम्यायां कालाऽध्वनोस्तृतीया । ३ फलसिद्धौ भावादपि तृतीयेति मतान्तरम् ॥ ३८ ॥