SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्यासहितम् अधीयानै दिन १ मपि च्छन्दो नाऽग्राहि माणवैः २ । गोपीगीत्या २ हृदोद्भान्तैः ४ समेन ५ विषमेण ६ च ॥३९॥ ____ अधीयानैरित्यादि । माणवै विप्रवटुभि दिनमखिलं दिनमभिव्याप्याऽपि समेन समवृत्तेन लक्षणया सुपाठ्येन स्थानकेन, सरलेन प्रकारेण वा, कृत्वा, विषमेण विषमवृत्तेन लक्षणया कठिनपाठ्येन स्थानकेन, श्रमसाध्येन प्रकारेण वा कृत्वा, चः समुच्चये । अधीयानरभ्यासं कुर्वाणैरपि, गोपीगीत्या शालिगोप्त्रीगानेन हेतुना हृदा मनसा उद्धान्तैरस्थिरैः, गोपीगीताकर्णनाकाङ्क्षाचञ्चलचितैः सद्भिरित्यर्थः । छन्दो वेदो नाऽग्राहि नाऽभ्यस्तम् । वेदो न कष्ठस्थी. कृत इत्यर्थः । अन्यमनस्केन बह्वप्यभ्यस्यमानं न कण्ठगतं भवति शास्त्रमिति तात्पर्यम् । अत्र गीतानां मनोहरत्वं ध्वन्यते ॥ ३९ ॥ धान्येनाऽ १ र्थ इतीन्द्रस्य मासा २ पूर्व पयोमुचः।। कौतुकेना ३ ऽर्थिनः पौराः स्तम्भेना ४ ऽद्रादुरुत्सवम् ॥४०॥ धान्येनेत्यादि । पौरा नागराः कौतुकेन कुतूहलेन हेतुना अर्थिनोऽभिलाषुकाःसन्तः, धान्येन अर्थः प्रयोजनं विद्यते इति अतः, धान्यादिप्रयोजनसिद्धये क्रियमाणमित्यर्थः । पयोमुचः लक्ष १ सिद्धथमावाद् व्याप्ती द्वितीया । २ कर्तरि तृतीया । ३ हेतौ तृतीया । ४-५-६ करणे तृतीया ॥ ३९ ॥ १-२-३ विद्यत्यादिक्रियाध्याहारेण कर्तरि करणे हेतौ वा तृतीया । • इत्यम्भूतलक्षणे तृतीया ॥ ४० ॥
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy