________________
१८०
कास्कघ्याश्रयकाव्यम्
णया घनागमस्य मासा मासेन पूर्वमग्रे, पश्चादित्यर्थः । “पूर्व तु पूर्वजे । प्रागग्रे श्रुतभेदे चे" ति हैमः । वर्षौमासानन्तरमाश्चिनपूर्णिमायामित्यर्थः । इन्द्रस्य देवेन्द्रस्य स्तम्भेन ध्वजादिभूषितेनोत्तुगवंशादिदण्डरूपेणोपलक्षितम् , उत्सवमद्राक्षुः । आश्विनशुक्लाऽष्टमीतः प्रारभ्य पूर्णिमां यावद्धान्यादिप्राचुयार्थमिन्द्रमहोत्सवो विधीयते ॥ ४० ॥ मित्र मासावरे 1 वीचा २ निपुणैः सह गोकुले । गुडेन ३ मिश्रं वेषेण ४ श्लक्ष्णा गोपाः पयः पपुः ॥४१॥
मित्ररित्यादि । गोपा गोकुलस्वामिनो जना वेषेण नेपथ्येन श्लक्ष्णाः सूक्ष्मा मृदवश्व, धृतमृदुदुकूला इत्यर्थः । सन्त इति शेषः । गोकुले व्रजे मासा मासेनाऽवरै लघुभिः, सवयोभिरित्यर्थः । वाचानिपुणैः वाक्पटुभिर्मित्रैः सखिभिः सह सम्भूय गुडेनेक्षुविकारविशेषेण मिश्रं संस्कृतं पयो दुग्धं जलं वा पपुरपिबन् । शरदि हि हितं सूक्ष्मांशुकं गुडमिति भिषजः ॥ ४१ ॥
दाण्डायां गिरिणा ! काणाः खण्डाः शङ्कुलया २ मिथः । " ग्राम्या युक्तया ३ ऽनूना मुष्टिभिः ४ कलहं व्यधुः ॥४२॥
दाण्डायामित्यादि। युवतया यौवनेनाऽनूना अन्यूनाः, युवान १-२-३- कृतादिक्रियाध्याहारेण कर्त्तरि करणे, हेतौ वा तृतीया ॥४१ १-२-३-४ कृताद्यध्याहारेण कर्तरि करणे हेतौ वा तृतीया ॥ ४२ ॥