________________
भद्रङ्करोदयाख्यव्याख्यासहितम्
१८
-
इत्यर्थः । ग्राम्या ग्रामभवा जनाः दाण्डायां दण्डप्रहरणसाध्यायां शङ्खलाकन्दुकक्रीडायां गिरिणा कन्दुकेन की काणा एकाक्षा इव कृताः, शङ्खलाहतेनोच्छलितेन कन्दुकेनाऽक्ष्याघातान्मुद्रितकाक्षण कन्दुकाऽवलोकनादिति भावः । तथा शङ्घलयाऽनृज्वग्रया यष्टया खण्डाः पङ्गव इव कृताः, कन्दुकस्खलितया शङ्कुलया पादेष्वाघाता. त्कुण्ठगतयः कृताः पङ्गव इवेति भावः । मिथः परस्परं सृष्टिभिः कलहं युद्धं व्यधुः । परस्परं विप्रियं प्राप्ताः क्रुद्धा मुष्टिभिरेव प्रहत्य कलहं चक्रुरित्यर्थः । शरदि दाण्डा क्रीडा प्रवर्तते । तत्र च शकुलया मिथो विरुद्धं कन्दुक आहन्यते ॥ ४२ ॥
पुलिनानि सह क्षौमैः १ सरांसि नभसा २ समम् । ज्योत्स्न्योऽमाऽह्वा ३ ऽमिषन्मेघाः साकं कैलाससानुभिः ४ ॥४३॥
पुलिनानीति । पुलिनानि नदीतटानि श्रोमै ढुकूलैः सह अमिषन्नस्पर्धन्त, सादृश्यादिति भावः । शरदि हि नदीतटेषु वर्माम्बुप्रवाहक्षालनया विशदता क्रमशो नदीपूरस्य नीचैर्गमनासत्कमेव सैकतेषु तरङ्गपदानि च दृश्यन्ते, तथा जनाः शरदि क्षौमागि वासांसि शुभ्राणि वलिततरङ्गितानि च धारयन्ति । सरासि तडामा वर्षाऽभावात् स्थिरजलतया निर्मलजलानि नीलाभानि भवन्तीति साह
१-२-३-४ सहायोगे तृतीया ॥ ४ ॥