________________
१८२
कारक याश्रयकाव्यम्
यातानि नभसा व्योम्नाऽपगतवेगेनाऽतिनिर्मलेन नीलाभेन समममिषन् । एवं ज्योत्स्न्यश्चन्द्रिकाचार्य्यो रात्रयः शारद्यो निर्मलप्रकाश - द्भावाद् अह्ना दिनेन अमा सहाऽभिषन् । दिनवत्तासामपि निर्मलप्रकाशत्वात् ! किञ्च मेघाः कैलाससानुभिः कैलासाद्रेः शिखरैः, सहामिषन् । रिक्तजलत्वान्मेघानां कैलासशिखरवदेव शुभ्रत्वात् । पुलिनानि क्षौमवन्निर्मलानि तरङ्गितसैकतानि च सरांसि नभोवन्निर्मलानि नीलाभानि च रात्रयो दिनवदधिकप्रकाशा मेघाश्च कैलासशिखरवच्छुभ्राः शरद्यजायन्त इत्यर्थः ॥ ४३ ॥
बन्धुकान्यधरैः १ स्त्रीणां पद्मानि युगपन्मुखैः २ । सार्ध हासैश्च काशानि स्पर्धा न्यक्षेण ४ चक्रिरे ॥ ४४ ॥
बन्धूकानीत्यादि । बन्धूकानि तदाख्यपुष्पविशेषा रक्ताभत्वास्त्रीणां युवतीनामधरैरधरोष्ठैः सहेति गम्यते । पद्मानि विकचानि कमलानि मुखैर्वदनै युगपत्सह, स्त्रीणामिति सम्बध्यते । तासामेव हासे हास्यैः सार्धं काशानि काशपुष्पाणि । हासः शुक्ल इति कविसमयः । न्यक्षेण समग्रतया सह स्पर्धामभिभवेच्छां चक्रिरे विदधिरे, अपास्पृधुरित्यर्थः । शरदि हि तानि भवन्ति यथाक्रमं च स्त्रीणामधरमुखहास तुल्यानि चेति स्त्रीसादृश्यमत एव प्रीतिसम्पादकत्वं च शरदो ध्वन्यते । अत्र प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनमति
सादृश्याय ॥ ४४ ॥
१-१-३-४ सहार्थे गम्ये तद्योगे च यथायथं तृतीया ॥ ४४ ॥