________________
कारधाश्रयकाव्यम्
प्रतीभमिभ १ मन्वश्वमश्वं २ गां गां ३ च पर्यसौ ।
साधुः प्रति मद ४ मनु पालनं ५ बलितां ६ परि ॥ ३५॥ . प्रतीभमित्यादि । असौ शरत् , इभमिभं गजं प्रति, गजममिव्याप्येत्यर्थः । मदं प्रति मदोद्भवमभिलक्ष्य, मदोद्मविषय इत्यर्थः । अश्वमश्वमनु अश्वमभिव्याप्य, पालनमनु पालनं लक्षीकृत्य, रक्तस्रावादिरूपचिकित्सयाऽश्वानां नीरोगताऽऽपादनरूपपालनविषय इत्यर्थः। गांगां परि वृषभानभिव्याप्य बलितां बलिष्ठतां परि लक्षीकृत्य, बलग्रहणविषय इत्यर्थः । साधुरनुकूला, अभूदिति शेषः । शरदि हि कालमाहाल्याद्गजा माद्यन्ति, अश्वा विशेषचिकित्सया नीरोगतां गच्छन्ति, वृषभादयश्च नवपलालादिभक्षणेन हृष्टाः पुष्टा बलिष्ठाश्च जायन्ते इति तात्पर्यम् ॥ ३५॥ सरो ऽन्ववसितान्यब्जा २ न्यन्वेयु यत् सितच्छदाः । तेनर्त्तवोऽनु शरद ३ मुपगङ्गा ४ मिवाऽऽपगाः ॥ ३६ ॥
सर इत्यादि । सरोऽनु सरोभिः सह, जातावकत्वम् , अनुः सहार्थ इति बोध्यम् । अवसितानि सम्बद्धान्यब्जानि कमलानि अनु । अत्रानुतौ । तथा च सरोभिः सह सम्बद्धैः कमलै हेतुभि
१-२-३ वीप्स्ये यथायोगं प्रत्यादियोगे द्वितीया । ४-५-६ इत्यम्भूते प्रत्यादियोगे द्वितीया ॥ ३५ ॥
१-२ सहार्थे हेतौ चानुना योगे द्वितीया । ३-४ हीनेऽर्थेऽनुना मोगे उत्कृष्टाद् द्वितीया ॥ ३६ ॥