SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ भद्रसरोदयाख्यव्याख्यासहितम् १७५, मभि लक्षीकृत्य । तद्विषय इत्यर्थः । साधुरनुकूला, साधुत्वप्रकारमापन्नेत्यर्थः । शरत्तदाख्यतुः क्षणात्सद्य इवोपतस्थे आर्विभूता । नृपमुपचरितुं समागतेव । एतेन विधेये साधनसाकल्यसौलभ्याकार्यसिद्धिः, नृपस्य महान् प्रभावो यहतवोऽपि तदभिप्रायाऽनुसारिण इति च सूच्यते ॥ ३३ ॥ बभुः प्रति नृपं १ ग्रामपतिं २ पर्यनु कर्षकम् ३ । प्रति ग्रामं दिशं ५ पर्यनु क्षेत्रं ६ सस्यसम्पदः ॥ ३४ ॥ बभुरित्यादि । ग्रामं सामान् , जातावेकत्वम् । प्रति लक्षीकृत्य दिशं दिशः परि लक्षीकृत्य क्षेत्र केदारमनु लक्षीकृत्य सस्यसम्पदः सस्यसमृद्धिः नृपं प्रति नृपाणां भागे, ग्रामपति परि ग्रामण्यां भागे कर्षकं कृषिकर्मणामनु भागे च बभुः प्रभूततया विरेजुः । ग्रामे ग्रामे दिशि दिशि क्षेत्रे क्षेत्रे च सस्यानि यथायोग्य कर्षकग्रामणीनृपाणां भागेषु प्रचुरतराणि जातानीत्यर्थः । आदौ क्षेत्रपतित्वात्कर्षकाणां भागे सस्यानि प्रचुराणि, अतएव ग्रामभूस्वामित्वाद् ग्रामण्यां तत्र प्रचुरो भागः कररूपतया प्राप्तः । तत एव च राष्ट्रपतित्वान्नृपाणां भागे तानि प्रचुराणि | साक्षात्परम्परया च क्षेत्रस्वामित्वात्तेषां प्रत्येकं सस्येषु भागादिति बोध्यम् ॥ ३४ ॥ १-२-३ भागिनि प्रतिपर्यनुभिर्योगे द्वितीया । प्रतिपर्यनुभिर्योगे द्वितीया ॥ ३४ ॥ ४-५-६ लक्षणे
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy