SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १७४ कारकड्याश्रयकाव्यम् भागेषु, सर्वाङ्गं व्याप्येत्यर्थः । पुलकभृद् हृष्टरोमा । शत्रुस्मरणेन तद्विजिगीषया जातोत्साहवशात्सात्त्विकभावोदयात्सर्वाङ्गेषु रोमाञ्चाञ्चित इत्यर्थः । भुजावुभयतो द्वयोबाह्वो ईशं दृष्टिं क्षिपन् कुर्वन् , यस्य कस्याऽपि शत्रोनिग्रहे समर्थों मे भुजाविति दर्पण तौ दृष्टया सम्मानयनित्यर्थः । नृपः उदस्थात्सिंहासनादुत्थितवान् । अथो अनन्तरं तं नृपमभितः उभयतः स्थिती निषण्णौ तौ जेहुलजम्बको सचिवा उदस्थाताम् । तान् नृपाऽमात्यान् परितः सर्वतः सभागृहाबहिः स्थितो जनश्चोत्थितवान् । सभा विसृष्टेति यावत् । अत्र नृपस्य पुल. केन भुजावलोकनेन च प्रस्थाननिश्चयो ध्वन्यते ॥ ३२ ॥ ___ अथ दिग्विजययात्राभूमिकामारचयन्नादावनुकूलत्वाच्छरदं वर्ण. यन्नाह अथ १ द्यामभि शुभ्राऽभ्रा सुनीराऽभि सरःसरः २ । अभि दिग्विजयं ३ साधुरुपतस्थे शरत्क्षणात् ॥ ३३ ॥ ___ अथेत्यादि । अथ ग्राहरिपुमभि यानमन्त्रणानन्तरं यां व्योम अभि लक्षीकृत्य, व्योम्नीति यावत् । शुभ्राभ्रा शुभ्राणि वर्षत्तौं वृष्टत्वान्न्यूनजलतया विशदान्यभ्राणि मेघा यस्यां सा, धवलजलधरखण्डमण्डिता, सरःसरः तडागं तडागमभि व्याप्य, वीप्सायां द्विरुक्तिः । सुनीरा स्वच्छसलिला । अल्पातपत्वात्सुलभपेयजलत्वाच्च दिग्यात्रानुकूलेत्याशयः । अत एव दिग्विजयं लक्षणया दिग्विजययान १-२-३ यथाक्रम लक्षणवीप्स्यत्यम्भूर्थार्थेषु अभिशब्दयोगे द्वितीया ॥३३
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy