________________
भद्रङ्करोदयाख्यव्याख्यासहितम्
.. १७३
तदाख्यदेशं येनाऽभिलक्ष्य पार्थमर्जुनमति, पार्थस्याऽतिक्रमणेत्यर्थः । स्थाम्ना बलेन कृत्वा वृद्धोऽधिकः, पार्थादप्यधिकबलवानिति मिलितार्थः । त्वं समराय युद्धायं चलितश्चेत् प्रस्थितो यदि भवसि, विभो! प्रभो! त्वयि चलितमात्र एव, हा प्राणेशान् विग्विधिमित्येवं वैरिस्त्रैणानि वैरिस्त्रीवर्गः प्रलपेयुः प्रलापान् कुर्युरिति मां प्रति भाति, एवं मम बुद्धिः स्फुरति । तव पार्थादप्यधिकबलत्त्वेन वैरिस्त्रीणां स्वपतिमृत्युनिश्चयात्प्रागेव प्रलपितुमारभेरंस्ता इत्याशयः । त्वं पार्थवदेवाऽ-- प्रतिविधेयोऽरिहन्ता चेति तवाऽग्रे को नाम ग्राहरिपुः ससहायोऽपीति त्वया शङ्का न विधेयेति तात्पर्यम् ॥ ३१ ॥
अथोपसंहरन्नाह-- उपर्युपरि भूभृतो १ ऽध्यधि वना २ न्यधोधोऽम्बुधीन ३ द्विषोऽभिगदितेऽमुना पुलकभृद्वपुः ४ सर्वतः । भुजा ५ वुभयतः क्षिपन् दृशमथो उदस्थान्नृपः। स्थितौ तम ५ भितश्व तौ परित उत्थितस्ताञ् ७ जनः ॥३२
उपर्युपरीत्यादि । भूभृतः पर्वतानुपर्युपरि, पवर्तसारस इत्यर्थः । वनान्यध्यधि वनप्रत्यासन्नदेशे, अम्बुधीनधोया समुद्रसमीपे च द्विषो ग्राहरिपुप्रभृतयः शत्रवः सन्तीत्यमुना जम्बकेनाभिगदिते उक्तप्रकारेण वर्णिते सति वपुः सर्वतः.शरीरस्य सर्वेषु
१-२-३ द्विरुक्तोपर्युपर्यधोऽधोऽध्यधिशब्दयोगे द्वितीया । ४-५-६७ तसन्तसर्वोभयाऽभिपरिशन्दयोगे द्वितीया ॥ ३२ ॥
23