________________
१७२
कारकड्याश्रयकाव्यम्
तत्तं निहन्तुमवनी ४ दिव ५ मन्तरेण त्वा ६ मन्तरेण नहि सम्प्रति कश्चिदीशः ॥ ३० ॥
मित्रमित्यादि । नृपेन्द्र ! यो मित्रं समया समीपे भवेत् , अथ किञ्च दुर्ग पर्वतसमुद्रादिदुर्गमभूमिं निकषा समीपे भवेत्सोऽप्येकतरसमीपस्थोऽप्यलं समर्थो भवति, स्वरक्षण इति बोध्यम् । ते मित्रदुर्गे अन्तरा मध्ये यो भवेत्स किम्पुनः ?, सोऽलं भवतीति किमु वक्तव्यम् । द्वाभ्यामेव रक्षणात्स समर्थतम इति स्फुटमिति भावः । तस्मादतिबलिष्ठत्वात्सहायसमग्रत्वाच्च तं ग्राहरिपुं निहन्तुं वायाsवनी पृथिवीं दिवमाकाशं चाऽन्तरेण मध्ये, द्यावापृथिव्योर्मध्य इत्यर्थः । त्वां मूलराजमन्तरेण विना सम्प्रति कश्चिन्नहीशः प्रभुः । तस्मात्स्वयमेवाऽभियाहि तमिति भावः ॥ ३० ॥
ननु यः केनाऽप्यसाध्यः स मया साध्यः कथमिति शङ्कां निराकुर्वन्नाह
तेनाऽऽभीरान १ येन सुराष्ट्रा २ मतिवृद्धः पार्थ ३ स्थाना त्वं चलितश्चेत्समराय । हा प्राणेशांन ४ घिग्विधि ५ मेवं प्रलपेयुवैरिस्त्रैणानीति विभो! मां ६ प्रति भाति ॥ ३१ ॥ तेनेत्यादि । आभीरान् ग्राहरिपुप्रभृतीन तेनाऽभिलक्ष्य सुराष्ट्रां
१-२-३-४-५-६ लक्षणार्थकयेनतेनाभ्यामतिक्रमणार्थकाऽतिशब्देन हाभिवमतिशन्दै योगे च यथायथं द्वितीया ॥ ३१ ॥