SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ भद्रकरोदयाख्यव्याख्यासहितम् येsद्रौ १ समुद्रे २ च नृपा दधानाः क्षत्रत्वमात्म ३ न्युषिता दृगग्रे ४ । dsप्यस्य संवर्मयितार आजौ ५ नैको न च द्वौ बहवो द्विषस्तत् ॥ २९ ॥ १७१ द्रावित्यादि । ये यत्प्रकारा नृपा आत्मनि स्वस्मिन् क्षत्रत्वं क्षत्रियगुणं पराक्रमादिकं दधाना आश्रयन्तः सन्तोऽद्रौ पर्वते च समुद्रे लक्षणया तत्समीपदेशे चोषिता अधिष्ठिताः सन्ति, तथा येऽस्य ग्राहरिपो र्दृगग्रे नेत्रगोचरदेशे, पार्श्व एव तं सेवमाना इत्यर्थः, उपिताः सन्तीति सम्बध्यते । ते सर्वे आजौ त्वया सह युद्धे, तन्निमित्तमित्यर्थः । संवर्मयितारः सन्नद्धा भविष्यन्ति तत्पक्षाऽश्रितत्वादिति भावः । तत्तस्मादयं ग्राहरिपु नको नाऽसहायः, न च द्वौ स लक्षश्चेति द्वावेव न, किन्तु बहवो द्विषः सन्ति । तस्मात्सेनान्या असाध्यः सः प्रभूतसहायत्वादिति भावः ॥ २९ ॥ तस्मात्तवैव साध्योऽयं नाऽन्यस्येति स्फुटमाह - मित्रं १ नृपेन्द्र ! समया निकषाऽथ दुर्ग २ यः सोऽप्यलं भवति किं पुनरन्तरा ते ३ । १ औपश्लेषिक आधारः । २ सामीप्यकाधारः । ३ अभिव्यापकाधारः । ४ औपचारिकाधारः । ५ नैमित्तिकाधारः ॥ २९॥ १-२-३-४-५-६ समयानिकषाऽन्तराऽन्तरेणशब्दयोगे द्वितीया ॥ ३० ॥
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy