SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ कारकचाभयकाव्यम् जातः सोदर इवाऽतिप्रीतिमान् सखा मित्रमस्ति । एवञ्चाऽयं नैकोsसहाय इति न सेनान्या निग्राह्य इति भावः ॥ २७ ॥ ननु सखाऽपि लक्षो दूरस्थत्वान्न साहाय्यं कर्तुमीश्वर इति चेत्तत्राह कच्छा १ सुराष्टाऽष्टसु योजनेषु दीपोत्सवः पक्ष इवाऽऽश्वयुज्याः २ । फुल्ला ३ त्प्रभूतो न तदस्य दूरे स्थानाऽधिको भूमिपतिभ्य ४ उाम् ५ ॥ २८ ॥ कच्छादित्यादि । आश्वयुज्या आश्विनपूर्णिमायाः पक्षेऽर्धमासे गते दीपोत्सवो दीपमालिकेव कच्छात्तदाख्यदेशादष्टसु योजनेषु गतेषु सुराष्ट्रा तदाख्यदेशो भवति । तत्तस्मादस्य ग्राहरिपोः, उाम् पृथिव्यां भूमिपतिभ्यो नृपेभ्यः स्थाना बलेन कृत्वाऽधिकः । बलवत्तम इत्यर्थः । फुल्लात्तदाख्यनृपात्प्रभूतो जातः, फुल्लनृपपुत्र इत्यर्थः । लक्षाख्यो नृपो दूरे न, अप्रतिमबलशालित्वात्समये स समीपस्थ इवाऽष्टौ योजनान्युल्लङ्घय ग्राहारेः साहाय्यं कर्तुमीश इत्याशयः ॥ २८ ॥ न च तौ द्वावेवेति भ्रमः कार्य इत्याह १-२ अत्र गते गम्येऽपायः सुप्रतीत इत्यपादानत्वम् । ३-४ अत्र बुद्धिसंसर्गपूर्वकमपायमाश्रित्याऽऽपादानत्वम् । ५ वैषयिकाधारे सप्तमी ॥२८॥
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy