Book Title: Karakmala
Author(s): Shubhankarvijay, Suryodayvijay
Publisher: Lakshmichand Kunvarji Nagda

View full book text
Previous | Next

Page 182
________________ भद्रक्रोदयाख्यव्याख्यासहितम् स्वां सत्योक्तिप्रतिज्ञामाह---- तत्तेऽर्थशास्त्रे : ऽमिनिविष्टबुद्धेर्वदाम्यमिथ्याभिनिविश्य पार्श्वम् २ । गोदोह ३ मीशे त्रुटि ४ मप्युदास्ते य आस्यते द्राग् नरकं ५ हि तेन ॥२२॥ तत्ते इत्यादि । तत् सत्याऽसत्ययोरक्तगुणदोषफलत्वाद्धेतोः, अर्थशास्त्रे राजनीतावभिनिविष्टबुद्धेः अभिनिविष्टा सम्यक्कृताऽवगाहा निपुणा बुद्धिर्यस्य तादृशम्य ते तव स्वामिनः पार्श्व समीपमभिनिविश्याऽध्यास्याऽमिथ्या सत्यमेव वदामि । न विज्ञे कूटसाफल्यमिति स्वामिपार्थस्थितिनिहाय च त्वदने मिथ्यावाचोऽनवकाशात्सत्यमेव वदामि, तस्या उक्तदोषादवश्यहेयत्वाच्च मादृशां विवेकिनां महत उपसेविनामिति हृदयम् । ननु मौनं सर्वार्थसाधनमिति तूप्णीक एंवाऽऽस्तामिति चेन्न, अवसरत्यागेऽनर्थसम्प्राप्तेरित्याह-य ईशे लक्षणयेशकार्ये गोदोहं गौ र्दुह्यते यावता कालेन तावन्तं कालमपि, किं बहुना, त्रुटिं लवमानं कालमप्युदास्ते उपेक्षते, अनवहितो भक्तीत्यर्थः । तेन नरेण द्राग् झटित्येव नरकमास्यते स्थीयते । हीति १-२ अभिनिविशेराधारस्य व्यवस्थितविभाषया कर्मत्वमित्येकलाऽऽधारत्यमेव । ३-४-५ अकर्मकाऽऽसधातुयोगे भावकालदेशानामाधाराणां कर्मत्वम् । कर्मत्वाकर्मत्वे युगपञ्च । तेन नरकमास्यत इति सकर्मत्वाद्वितीयाऽकर्मत्वाच्च भावे प्रत्ययः ॥ २२॥ 22

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246