________________
भद्रक्रोदयाख्यव्याख्यासहितम्
स्वां सत्योक्तिप्रतिज्ञामाह---- तत्तेऽर्थशास्त्रे : ऽमिनिविष्टबुद्धेर्वदाम्यमिथ्याभिनिविश्य पार्श्वम् २ । गोदोह ३ मीशे त्रुटि ४ मप्युदास्ते य आस्यते द्राग् नरकं ५ हि तेन ॥२२॥
तत्ते इत्यादि । तत् सत्याऽसत्ययोरक्तगुणदोषफलत्वाद्धेतोः, अर्थशास्त्रे राजनीतावभिनिविष्टबुद्धेः अभिनिविष्टा सम्यक्कृताऽवगाहा निपुणा बुद्धिर्यस्य तादृशम्य ते तव स्वामिनः पार्श्व समीपमभिनिविश्याऽध्यास्याऽमिथ्या सत्यमेव वदामि । न विज्ञे कूटसाफल्यमिति स्वामिपार्थस्थितिनिहाय च त्वदने मिथ्यावाचोऽनवकाशात्सत्यमेव वदामि, तस्या उक्तदोषादवश्यहेयत्वाच्च मादृशां विवेकिनां महत उपसेविनामिति हृदयम् । ननु मौनं सर्वार्थसाधनमिति तूप्णीक एंवाऽऽस्तामिति चेन्न, अवसरत्यागेऽनर्थसम्प्राप्तेरित्याह-य ईशे लक्षणयेशकार्ये गोदोहं गौ र्दुह्यते यावता कालेन तावन्तं कालमपि, किं बहुना, त्रुटिं लवमानं कालमप्युदास्ते उपेक्षते, अनवहितो भक्तीत्यर्थः । तेन नरेण द्राग् झटित्येव नरकमास्यते स्थीयते । हीति
१-२ अभिनिविशेराधारस्य व्यवस्थितविभाषया कर्मत्वमित्येकलाऽऽधारत्यमेव । ३-४-५ अकर्मकाऽऽसधातुयोगे भावकालदेशानामाधाराणां कर्मत्वम् । कर्मत्वाकर्मत्वे युगपञ्च । तेन नरकमास्यत इति सकर्मत्वाद्वितीयाऽकर्मत्वाच्च भावे प्रत्ययः ॥ २२॥
22