________________
१६४
. कारकह्याश्रयकाव्यम्
च दीव्यन्ति यूतपणतां नयन्ति, हि तदेतत्स्फुटम् । कीर्ति कुलं च विगोपायन्ति, आत्मोन्नतिं च रुन्धन्तीत्यर्थः । धनादीनि लभन्ते कीयादीनि च जहतीति धनादिभिः कीयादीनि विनिमयन्ते पणायन्ति वेति सारार्थः ॥ २० ॥
अथ स्वामिकार्ये सत्यवादिनं स्तौति---- भर्तुः स चेतो १ ऽधिशयीत सोऽधिवसेत्सभामावसता २ च मौलिम् । गुरोः समीपं स उपोषितश्च ब्रूयात्सदो ५ ऽनूषितवान् स्फुटं यः ॥ २१ ॥
भर्तुरित्यादि । यः सदो मन्त्रणागृहमनूषितवानधिष्ठितः सन् स्फुटमृज्वक्षरं ब्रूयात् स भर्तुः स्वामिन श्वेतोऽधिशयीताऽधिवसेत् । भर्तुमनोज्ञः स्यादित्यर्थः । स सभामावसतामाश्रितानां मौलिमुत्तमा मुकुटं चाऽधिवसेत् । लोकानां मौलिरिव स सभ्यानां मुख्यः स्यादित्यर्थः । तथा स एव गुरोः समीपमुपोषितः कृतवासो न त्वनीदृशः, गुरौ वासफलम्य तत्रैवोपलम्भादिति भावः । स्पष्टवक्ता भर्तुः प्रियः सभ्यमूर्धन्यश्च भवति, गुरूपासनायाः स्फुटवक्तृत्वमेव फलमिति च सारार्थः ॥ २१ ॥
२-३-४-५ उपाऽन्वभ्याङ्
...१ अधेः शीङ आधारस्य कर्मता । वसतेराधारस्य कर्मता ॥ २१ ॥