SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ भद्रकरोदयाख्यव्याख्यासहितम् १६३ प्राणानां के न व्यवाहरन् द्यूतपणतां न प्रापितवन्त इत्यर्थः । कांक्वा बहवोऽपि तादृशा ये स्वामिकार्यार्थ मित्रादिप्राणान्तान् व्ययितवन्त इति व्यज्यते । तु विशेषे । किन्तु जेहुलवदित्थमुक्तप्रकार तथ्यं सत्यं च पथ्यं हितं च न कश्चिदवादीत । एतेन जेहुलो ज्ञानी स्वामिभक्तशिरोमणिश्चेति ध्वन्यते ॥ १९ ॥ म्वामिकार्येऽसत्याऽहितभाषिणो दूषयन्नाहकीर्तेः १ प्रदीव्यन्ति कुलं २ च दीव्यन्त्यात्मोन्नते ३ स्ते किल ये हि मन्त्रे । दीव्यन्ति कूटं ४ चटुना ५ च लोभ-६ मध्यासिताः पाप ७ मधिष्ठिताश्च ॥ २० ॥ कीरित्यादि । ये मन्त्रिणो मन्त्रे गुप्तविचारे लोभं धनादिलाभेच्छामध्यासिता आश्रिता अत एव पापं छलात्मकं दुष्कर्माऽधिष्ठिता आश्रिताश्च कूटमसत्यं चटुना चाटुकारेण च दीव्यन्ति व्यवहरन्ति, लोभाच्छलेनाऽसत्यमहितं च मन्त्रं ददतीत्यर्थः । ते तादृशा मन्त्रिणः किल वस्तुतः कीर्तेः सन्मन्त्रित्वख्यातः कुलमुच्चैर्गोत्रं च स्वं प्रदीव्यन्ति विनिमेयतां नयन्ति, आत्मोन्नतेः स्वाऽभ्युदयस्य १-२ सोपसर्गस्य दीव्यते प्प्यस्य वा कर्मस्वमिति षष्ठी द्वितीया च । ३ निरुपसर्गस्य दीव्यतेः कर्मत्वं नेति षष्ठी । ४-५ दीव्यतेः करणस्य कर्मत्वं चेत्येकत्र द्वितीयाऽन्यत्न तृतीया । ६-७ अधेरासेस्तिष्ठतेश्वाऽऽधा. रम्य कर्मत्वम् ॥ २० ॥
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy