________________
१६२
कारकव्याश्रयकाव्यम्
श्रुत्वेतीत्यादि । इति उक्तप्रकारां वाचं जेहुलमन्त्रिवाणीं श्रुत्वा राज्ञा द्विपतां शत्रूणां ग्राहरिपुप्रभृतीनां प्रहन्तुं नाशाय, तेऽरयः कथं नाशनीया इत्येवं खरादीन् खरदूषणादीन् निप्रहन्त्रा नाशयित्रा रामेणेव दशग्रीवादीनां द्विषतां प्रहन्तुं जाम्बवानिव दृशा दृक्संज्ञया प्रेरितः पृष्टः, जाम्बवानिवाऽय्या प्रशस्या बुद्धिर्यस्य स जाम्बवदग्न्यबुद्धि जम्बकस्तदाख्यो मन्त्री इति वक्ष्यमाणप्रकारेण अवोचत् वक्तुमुपाक्रमत । यथा रामेण पृष्टो जाम्बवान् तथा राज्ञा पृष्टो जम्बको द्विषन्नाशविषये स्वविचारं कथयितुमारभतेत्यर्थः ॥ १८॥
जम्बकोक्तिमेवाह---
न केऽपणायन् सुहृदां १ सुतांश्च २
व्यवाहरन् वा विभवान ३ सूनाम् ४ । कार्ये प्रभो हुलवच्चवादीतथ्यं च पथ्यं च न कश्चिदित्थम् ॥ १९ ॥
2
न के इत्यादि । प्रभोः स्वामिनः कार्ये कार्यनिमित्तं के स्वामिभक्ता भृत्यादयः सुहृदां मित्राणां ततोऽप्यधिकमिष्टान् सुतांश्च नाsपणायन् क्रयविक्रये द्रव्याणीव न नियुक्तवन्तः, विनिमेयतां न प्रापितवन्त इत्यर्थः । काका बहव ईदृशा इति व्यज्यते । वा तथा मित्रपुत्रेभ्योऽपि प्रियान् विभवान् धनानि ततोऽपि प्रियाणामसूनां
१-२-३-४ व्यवपूर्वस्य हरते: पणायतेश्च व्याप्ययो विनिमेय द्यूतपयो व कर्मत्वमिति यथायथं पष्ठी द्वितीया च ॥ १९ ॥