________________
भद्रतरोदयाख्यव्याख्यासहितम्
जम्भं १ यथाऽजीजसदुग्रधन्वा मधुं २ यथाऽनीनटदधिशायी । पुरं ३ यथाऽचिक्रथदीश एवं निघ्नन्तमुर्त्याः ४ प्रणिजह्यमुं ५ त्वम् ।। १७ ॥
जम्भमित्यादि । यथोग्रधन्वेन्द्रो जम्भं तदाख्यमसुरमजीजसद्धतवान , यथाऽन्धिशायी विष्णु मधुं तदाख्यमसुरमनीनटदनाशयत् , यथेशः शम्भुः पुरं त्रिपुरासुरमचिक्रथनाशितवान् ; एवमुक्तप्रकारेण त्वमुर्त्या लक्षणया लोकस्य निघ्नन्तं नाशयन्तममुं ग्राहरिपुं प्रणिजहि नाशय । उपधन्वादिना जम्भादेरिव त्वया तन्नाशः सुकर आवश्यकश्चति भावः ॥ १७ ॥
अथ राज्ञोऽपरमन्त्रिप्रेरणमाह-.-. श्रुत्वेति वाचं द्विषतां १ प्रहन्तुं राज्ञा खरादीनिव र निप्रहन्त्रा। मन्त्री दृशा प्रेरित इत्यवोचत् स जम्बको जाम्बवदग्न्यबुद्धिः ॥ १८ ॥
१--३ आकारोगान्त्यस्यैव जासेत्यादिविशिष्टोत्या जासादेव्याप्यस्य वा कर्मत्वमिति अत्र तदभावन्नित्यं कर्मलम् । ४-५ निप्रपूर्वाद्धन्ते याप्यस्य वा कर्मत्वमिति यथायथं द्वितीया पष्ठी च ॥ १७ ॥ .
१-२ व्यस्ताद्यत्यस्ताच्च निप्रपूर्वाह्न्तव्याप्यस्य वा कर्मत्वमिति षष्ठा द्वितीया च ॥ १८ ॥