SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १६० कारकायाश्रयकाव्यम् मम प्रवृत्तिः स्यादिति चेत्स्वत एव विज्ञत्वात्समर्थत्वाच्च । तत्र दृष्टान्तमाह-किलेत्यैति । भुवः पृथिव्या उज्जासयत्तत्र तत्र पातेन कृत्वा नाशयदद्रिचक्रं गिरिसमुदय मुज्जासयितुं भेत्तुमिन्द्रः केन नियुक्तो निदिष्ट: ? । कावा न केनाऽपि किन्तु विज्ञत्वात्प्रभुत्वाच्च स्वत एव स तत्र प्रवृत्तः । प्रजा उज्जासयतोऽद्रीन् वज्रेणेन्द्रो विदारयामासेति पौराणिकाः ॥ १५ ॥ शत्रुनिग्रो न कालक्षेपमईतीत्याह- लोकस्य १ पिंषन्तमरिं ह्यनुन्नाटयन्नृपो नाटयति क्षमायाः २ । पेष्टा न चेत्तामसि ३ तत्प्रजाना- ४ सुत्क्राथयन्तं क्रथयैनमद्य ५ ॥ १६ ॥ लोकस्येत्यादि । लोकस्य प्रजानां पिंषन्तं नाशयन्तमरिं द्विषमनुन्नाटयन्ननिगृह्णन्नृपः क्षमायाः पृथिव्याः तात्स्थ्यात्ताच्छब्यमिति लोकस्यैव नाटयति हिनस्ति । दण्डाधिकृतः काले दण्ड्यानदण्डयन् परम्परया प्रजानां नाशकः स एवेति भावः । चेद्यदि तां पृथिवीं पेष्टा नाशयिता नाऽसि, प्रत्युत पालकोऽसि तत्तदा प्रजानामुत्क्राथयन्तं नाशयन्तमेनं ग्राहरिपुमद्य विनाविलम्ब क्रथय निगृहाण । अन्यथा कालविलम्बे रोगिणि मृते किं चिकित्सयेति भावः ॥ १६ , १-२-३-४-५ हिंसार्थीनां नाटकाथपिषां व्याप्यस्य वा कर्मत्वमिति यथायथं षष्ठी द्वितीया च ॥ १६ ॥ .
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy