________________
भद्रङ्करोदाख्यव्याख्यासहितम् ।
पत्तेरिति भावः । तत्तस्माच्छम्भोराज्ञाभङ्गो मा भूत्स्वं च तद्योग्य मत्वाऽस्य ग्राहरिपो बंधे वधार्थ बलं सैन्यमुपस्कुरुष्व विविधास्त्रशस्त्रादिभिर्विशेषगुणं सम्पादयस्व, किञ्च . धियां मन्त्रस्योपस्कुरुष्व विशिष्टेन प्रकारेण बुद्धिं प्रयुङ्वेत्यर्थः । सहजबुद्ध्या तस्याऽसाध्यत्वादिति भावः। " हिंस्रः स्वपापेन विहिंस्यते खल ” इति बुद्धया तदुपेक्षणमनुचितमित्याह -हि यतो द्विडुपेक्षणाऽमो द्विष उपेक्षणात्मकोऽमो रोगो राज्यस्य राजशासनस्य राष्ट्र देशं च रुजेलीडयेत् । विनाशयेदित्यर्थः । रोगोऽपि युपेक्षितो रोगिणं नाशयति ॥ १४ ॥
अलं विज्ञेषु विज्ञप्तिरित्याह-- सन्तापयन्तं ज्वरयन्तमुर्वी १ तमामयं छत्तुमलं निदेशैः। भुवः २ किलोज्जासयदद्रिचक्रं केनेन्द्र उज्जासयितुं नियुक्तः ? ॥ १५ ॥
सन्तापयन्तमित्यादि । उर्वी महीं लक्षणया प्रजाः सन्तापयन्तं करभारादिभिदुःखाकुर्वन्तं ज्वरयन्तमुक्तप्रकारेण पीडयन्तं च तं ग्राहरिपुरूपमामयं रोगम् , रोगोऽपि हि सन्तापयति तापेनाऽऽकुलयति अङ्गानि व्यथयति चेति भावः । छेत्तुं नाशयितुं निदेशैः प्रेरणाभिरस्मदादिकृताभिरलं कृतम् , न प्रयोजनमित्यर्थः । ननु कथं तर्हि
१ वरिसन्ताप्यो वर्जनान्नित्यं कर्मत्वम् । २ जासे योग्यस्य वा कर्मत्वमिति पष्ठी ॥ १५ ॥ .