________________
कारकड्याश्रयकाव्यम्
__ननाथेत्यादि । नाथ ! स्वामिन् ! यः शम्भुः सोमनाथो निशि रात्रौ, स्वप्ने इति बोध्यम् । त्वां ननाथ "प्रभासविध्वंसपरेषु तेषु दण्डोशना त्वं भव सज्यधन्वे" त्यादिना ग्राहरिपुनिग्रहं याचितवान् , तं सोमनाथं शम्भु नाथं चेन्नाथसे स शम्भु नाथो मे भूयादित्येवमाशंससे, अथ किञ्चोच्चैरतिमहतां यशसां नाथसे--महती कीर्ति में भूयादित्येवमाशंससे तथा स्ववंशधर्म स्वस्य वंशस्य कुलस्य चालुक्याख्यस्य धर्ममुत्पथगामिनो दण्डनीया इत्येवं गृहीतकर्त्तव्यं स्मरसि, स्मृतेरनयप्रवृत्ता दण्डनीया इति राजधर्मसंहिताया वा चेत्स्मरसि तत्तदेह ग्राहरिपौ विषये रुषां कोपानां दयस्वाऽऽप्नुहि, कोपं कुर्वित्यर्थः । क्षमा शान्ति मा दयस्व ॥ १३ ॥
त्वमेव तस्ये १ शिष इत्यदिक्षदीशान ईट् त्वां तदुपस्कुरुष्व । बलं २ धियां चाऽस्य वधे रुजेद्धि राज्यस्य ३ राष्ट्रं द्विडुपेक्षणाऽमः ॥१४॥
त्वमेवेत्यादि । त्वं मूलराज एव नाऽन्यस्तस्य ग्राहरिपोरीशिषे, तं निग्रहीतुं समर्थोऽसीत्यर्थः । इति अत एव ईट् प्रभुरीशानः शम्भुः सोमनाथस्त्वामदिक्षत् ग्राहरिपुं निगृहाणेति स्वप्ने आज्ञापितवानित्यर्थः। अन्यथा तदयोग्ये तद्विधिनिदेशाच्छम्भोरसर्वज्ञत्वाविकल्पेनेति पक्षे षष्ठी ॥ १३ ॥
१-२-३ प्रतियत्नार्थककृगो रुजार्थस्य च व्याप्यस्य वा कर्मत्वमिति । यथायथं पष्ठी ॥ १४ ॥