________________
भद्रकरोदयाख्यव्याख्यासहितम्
दुर्नीतिमि । दर्शयमानमेत- २ मद्यापि किं दर्शयसे प्रसनः । मा मायिनं ३ जात्वभिवादयस्व न्याय्यै ४ नयज्ञा ह्यभिवादयन्ते ॥ १२॥
दुर्नीतिभिरित्यादि । दुर्नीतिभि र्दुराचरणै दर्शयमानमेतमव. लोकमाना दुर्नीती: कीरनुकूलाचरणेन प्रेरयन्तं प्राहरिपुम् , दुर्नीतयो यथा ख्याताः स्युस्तथा पुनः पुनस्ता एवाऽऽचरन्तमित्यर्थः । अद्यापि तदुराचरणानिग्रहकाले समुपस्थितेऽपि किं प्रसन्नो दर्शयसे १, स्वस्मिन् प्रसन्नं त्वां पश्यन्तं तं फिमनुकूलाचरणेन प्रेरयसि ? । काक्या नैतदुचितमित्यर्थः । किञ्चैनं मायिनं कपटपटुं प्राहरिपुं जातु कदापि माऽभिवादयस्व माययाऽभिवदन्तं प्रणमन्तमेनमनुकूलाचरणेन मा प्रेरयेत्यर्थः । हि यस्मात् नयज्ञा नीतिनिपुणा न्याय्यै न्यायपरायणैः कर्तृभिरभिवादयन्तेऽभिवदतो न्यायिनोऽनुकूलाचरणेन प्रेरयन्ति न तु दुराचारिण इत्यर्थः ॥ १२ ॥
ननाथ यस्त्वां निशि नाथ ! नाथं तं नाथसे चेयशसा १ मथोच्चैः । स्ववंशधर्म स्मरसि स्मृते २ वा
चेत्तद्दयस्वेह रुषां ३ क्षमा ४ मा ॥ १३ ॥ १-२-३-४ दृशेरभिवादेश्वाऽऽत्मनेपदविषयस्याऽक्कर्तुणिणिगि वा कर्म. तेति यथायथं कर्तुदितीया तृतीया च ॥ १२ ॥
१-२-1-1 भात्मनेपदिनो नायः स्मृत्यर्भस्य दयतेम मापस्य कर्मता 21