SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ कारकड्याश्रयकाव्यम धौव्ये । सोऽवश्यं नरकं यातीत्यर्थः । तस्मादवसरे सत्यमवश्यवक्तव्यमिति भावः ॥ २२ ॥ सम्प्रति वस्तुतो ग्राहरिपो र्दु:साध्यत्वमाह--- क्रोशे १ गिरि योजन २ मन्धिरस्य दुर्ग स्वपुर्या ३ वसतोऽस्त्यमुं तत् । समुत्थितं निश्यपि ४ शालिपाकेऽ ५. प्यशायिनं मा स्म मथाः सुसाधम् ॥ २३ ॥ .. क्रोश इत्यादि । अस्यं ग्राहरिपोः स्वपुया स्वनगरे वामनस्थलीनाम्न्यां वसतस्तिष्ठतःसतो गिरी रैवतकाद्रिःक्रोशे क्रोशपरिमितमार्गान्ते, अतिसमीपेऽस्तीत्यर्थः । अब्धिः समुद्रो योजनं योजनपरिमितमार्गान्तस्थः, सन्निहित एव नातिदूर इत्यर्थः । तदेवं गिरिरब्धिश्च दुर्गमगम्यं स्थानं तन्नगरसमीप इति गिरिसमुद्ररक्षिता तन्नगरी दुर्गम्येत्यसाध्येति भावः । न केवलं तस्याश्रयबलमेव, किन्तु स्वयमपि स सदा जाग्रदित्याह.. शालिपाके शालयः पच्यन्ते यावता कालेन तावति कालेऽप्यशायिनं निद्रामलभमानम् , अनलसं रक्षाविषये इत्यर्थः । अमुं ग्राहरिपुं सुसाधं स्वं विहाय दण्डनेत्रादिनैवाऽल्पोपायेन सुखेन साध्यत इति तं तादृशं मा स्म मथा अबुद्धाः। दुर्गबलसम्पन्न उद्यमी सततं जाग्रच्च न सुसाध्य इत्यर्थः ॥ २३ ॥ १-२-३-४-५ अकर्मकघातुयोगे मागीदेः क्रोशादेगधारस्य वा कर्मत्वमिति यथायथ सप्तमी द्वितीया' च ॥ २३ ॥
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy