________________
মক্কবীদ্বাশ্যালি
गोदोह ? मप्युद्यममत्यजन्तो भजन्त्यहोरात्रममुं २ नृपास्तत् । . क्रोशाञ् ३ शतं सैन्यपतिं दिशंस्तद्वधाय ४ दांत्रेण ५ तरुं लुनासि ॥ २४ ॥
गोदोहमित्यादि । गोदोहं यावता कालेन गौर्दुह्यते तावन्तं कालमप्युद्यममत्यजन्तः, सततोद्यताः सन्त इत्यर्थः । नृपा अधीना राजानोऽमुं ग्राहरिपुमहोरात्रं नक्तन्दिवम् , अविरतमित्यर्थः । भजन्ति सेवन्ते । एतेन बलसम्पदुक्ता । तत्तस्माद्धेतोः क्रोशाञ् शतं क्रोशशतं दूरे इत्यर्थः । एतेन तत्र गतस्य सेनान्योऽवसरे तव साहाय्यं दुर्लभमिति सूच्यते । तस्य ग्राहरिपोर्वधाय सैन्यपति सेनान्यं दिशन् व्यापारयन् दात्रेण तरुलवनाऽयोग्येन शस्त्रविशेषेण कृत्वा तरं वृक्षं लुनासि च्छेत्तुं व्यवस्यसि । यथा दात्रेण तरुलवनमशक्यं तथा तादृशस्य तस्य सेनान्या वधोऽशक्य इत्यर्थः ॥ २४ ॥
ननु तर्हि किं कर्तव्यमिति चेत्तत्राह-- जयाय १ चेत्वं स्पृहये यशो २ वा. लोकाय ३ कुप्यन्तमसूयमानम् ।
१-२-३ सकर्मकधातुप्रयोगेऽपि कालादेराधारायाप्तौ गम्यायां नित्यं कर्मत्वमिति मतान्तरेणैषु कर्मत्वं बोध्यम् ।' ४ सम्प्रदाने चतुर्थी । ५ करणे तृतीया ॥ २४ ॥
। १-२ स्पृहे याप्यस्य वा सम्प्रदानत्वमिति यथायथं चतुर्थी द्वितीया ।