________________
१६८
कारकव्याश्रयकाव्यम्
दुह्यन्तमन्तममुं ४ स्वयं तत् प्रद्रोग्धुमुत्कुध्य कृताभियोगः ।। २५ ।।
जयायेत्यादि । त्वं चेज्जयाय यशो वा स्पृहये:, जयं कीर्ति वेच्छसीत्यर्थः । तत्तदा लोकाय प्रजाभ्यः कुप्यन्तं कुध्यन्तमसूयमानं लोकस्यैव गुणेषु दोषानाविष्कुर्वाणं तस्मा एव द्रुह्यन्तमपचिकीर्षन्तमर्ण्यन्तं लोकसम्पदमसहमानममुं ग्राहरिपुं प्रद्रोग्धुं हन्तुं स्वयं न तु दण्डनेत्रादिना कृताऽभियोग उद्योगमधिष्ठितः सन्नुत्क्रुध्य तं क्रोधविषयं कुर्वित्यर्थः । स्वयं तमभिषेणयेति यावत् । तादृशाऽपकारि बलवत्सु सत्सु मन्दोत्साहो नोचित इति हृदयम् || २५ ||
दृष्टान्तद्वारेण निजोक्तिं द्रढयन्नाह
सिंहो निकुञ्ज १ दभिसृत्य यूथा- २ द्धन्तीभमुद्दामतमं मृगेभ्यः ३ ।
याना ४ स्वयं मा विरम प्रमाद्य
मा मा जुगुप्सस्व जगत्ततो ऽवन् ।। २६ || सिंह इत्यादि । सिंहो निकुञ्जाल्लतादिपिहितोदराद्वनादभिसृत्य निर्गत्य स्वयमभियायेत्यर्थः । मृगेभ्य इतरवन्येभ्य उद्दामतमं बलिष्ठमुच्छ्रङ्खलं चेभं गजं यूथान्मृगसमूहान्निष्कृष्य हन्ति । न्च | ३ क्रुधाद्यर्थकधातुप्रयोगे चतुर्थी । ४ सोपसर्गयोः क्रुधदुह्योः प्रयोगे सम्प्रदानतानिषेधाद् द्वितीया ॥ २५ ॥
१-२-३ यथाक्रमं निर्दिष्ट विषयोपात्तविपयाऽपेक्षितक्रिया ऽपादानानि । ४५. बुद्धिकृतमपादानत्वं बोध्यम् ॥ २६ ॥