Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 13
________________ जिनदत्तचरित्रे। नाममात्रेण सा स्त्रीति गुणशून्येन कीर्त्यते । पुत्रोत्पत्यानया पूता यथा शक्रवधूटिका ॥६३॥ प्रसादोऽपि न मे भर्तुः शोभायै सूनुना विना। शब्दानुशासनेनैव विद्वत्ताया विजृम्भितम् ॥ ६४ ॥ साहं मोहतमश्छन्ना निशेवोद्वेगदायिनी। दीयते यदि नो पुत्रप्रदीपः कुलवेश्मनि ॥६५॥ चिन्तयन्तीति सा बाला कपोलन्यस्तहस्तका । पातयामास सभ्यानां नेत्रभृङ्गान मुखाम्बुजे ॥ ६६ ॥ पेतुर्यथायथा तस्याः सुभ्रुवो बाष्पबिन्दवः । भेजुस्तथातथा दुःखं मानसानि सभासदाम् ॥ ६७ ॥ सभां विस्मयसम्पन्नां तां च दुःख भरालसाम् । अथालोक्य जगादासौ कृपयति यतीश्वरः ॥६८॥ विशुद्धहृदये ? कार्षीः शोकसागरमजनम् । मा वृथैव यतः शीघ्रं सफलास्ते मनोरथाः ॥ ६९ ॥ निशाकरकराकारकर्तिव्यातजगत्रयः । गाम्भीर्यौदार्यशौण्डीर्यसौन्दर्यकुलमन्दिरम् ॥ ७० ॥ त्रिवर्गरचनासूत्रधारस्तव तनूरुहः । समग्रगुणमाणिक्यरोहणादिरिवापरः ॥ ७१ ॥ भद्रं भूषयिता भव्यो गगनं भानुमानिव । कुलं कतिपयैरेव वासरैः साधुवत्सले ! ॥७२॥ विशेषकम् । १ इन्द्रगोपा । २ व्याकरणशास्त्रेण । ३ प्रसरणं । ४ मा कार्षीः मा कुरु । विधेहि, माङ् योगेऽडाटौ न भवतः । ५ शौर्यम् । ६ सूत्रं प्रयोगानुष्ठानधारयतीति सूत्रधारः । ६ पुत्रः। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102