Book Title: Jindutta Charitram Kavyam
Author(s): Gunbhadrasuri, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 12
________________ प्रथमः सर्गः । खनिरौचित्यरत्नानां विनयद्रुममञ्जरी। सतीव्रतपताकेव पश्यतां मोहनौषाधः ॥५३ ॥ . केलिकोपान्तरायं स भुंजनः सुखमुत्तमम् । दिनानि गमयामास धर्मार्थार्जनकोविदः ॥ ५४ ॥ गृहीतगन्धपुष्पादिप्रार्चना सपरिच्छेदा । अथैकदा जगामासौ प्रातरेव जिनालयम् ॥ ५५ ।। त्रिःपरीत्य ततः स्तुत्वा जिनांश्चचतुराशया। संस्नाप्य पूजयित्वा च प्रयाता यतिसंसदम् ॥ ५६ ॥ अस्ति यत्र समस्तार्थभासी दिव्यावधीक्षणः । गुणचन्द्रगणाधीशो भव्याम्भोरुहभास्करः ॥ ५७॥ तं ससंघ ततो नत्वा निविष्टा निकटे ततः। कथ्यमानां प्रसङ्गेन कथां पौराणिकी तदा ॥ ५८ ॥ शुश्राव तां कृता यस्यां प्रशंसा पुत्रतः स्त्रियांम् । अपुत्राणां प्रबन्धेन निन्दात्पत्तिरापि ध्रुवा ॥ ५९॥ युग्मम् । तां निशम्य महाशोकशङ्कनेव हता हृदि । चिन्तयामास साध्वीति वाष्पपूर्णविलोचना ॥६०॥ अशोकस्तबकनेव यौवनेन ममामुना। रागिणा केवलं किन्तु न यत्र फलसम्भवः ॥ ६१ ॥ वारिधेरिव लावण्यं विरसं मम सर्वथा। न यत्रापत्यपद्मानि तेन कान्तजलेन किम् ॥ ६२॥ १ वशकारिणी । २ सपरिवार । जीवंजसा । ४ पुराणसम्बन्धिनीं । ५ षष्ठीबहुवचनं । ६ कीलकेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102