Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 17
________________ १२ जिनदत्तचरित्रे। द्वितीयः सर्गः। दधानस्यापि तस्याथ यौवनं नयनामृतम् । बभूव मानसं नित्यं नारीसुखपराङ्मुखम् ॥१॥ काव्यामृतरसास्वाइविनोदेन कदाचन ।। वौदजल्पवितण्डादिचर्चया चतुरोऽन्यदा ॥२॥ वाहनेन तुरंगाणां शास्त्राभ्यासेन कर्हिचित् । परीक्षणेन रत्नानां साधूनां सेवयान्यदा ॥ ३॥ पूजोत्सवैजिनेन्द्राणां राजकार्यैः कदापि च । इत्यादिचारुचेष्टाभिरसक्तो विषयेष्वसौ ॥४॥ समस्तसुखसम्पत्तिसमृद्धो बुधवल्लभः। दिनानि गमयामास बयस्यैः सहितो मुदा ॥ ५॥ विमुखं तं ततो ज्ञात्वा तस्मिन दारपरिग्रहे । सबन्धुर्विदधे यत्नं सूनो रंजयितुं मनः ॥६॥ यत्र चित्ररतक्रीडारसिकानि विलासिनाम् । मिथुनानि निषीदन्ति तेषानेषु नीयते ॥ ७ ॥ क्रीडत्कान्तास्तनाभोगसङ्गसङ्क्रान्तकुंकुमाः। वापीः पद्माननास्तस्य दर्शयन्ति जना निजाः ॥८॥ १ वादजल्पवितण्डालक्षणानि यथा-आचार्यशिष्ययोः पक्षप्रतिपक्षपरिग्रहात् । या कथाऽऽभ्यासहेतुः स्यादसौ वाद उदाहृतः ? । विजिगीषुकथा या तु छलजात्यादिदषणम् । स जल्पः सा वितण्डा च या प्रतिपक्षवर्जिता ॥२॥ २ मित्रः। ३ तिष्ठन्ति । ४ उपवनेषु । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102