Book Title: Jindutta Charitram Kavyam Author(s): Gunbhadrasuri, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 83
________________ जिनदत्तचरित्रे वाति प्रभञ्जनस्तत्र मानिनीमानभञ्जनः। तादृशस्य प्रभोः सङ्गे तथा किं नोपजायते ॥ ३३ ॥ आसते यतयस्तत्र विविधर्द्धिविराजिताः । धर्माः समूर्तयो मन्ये भव्यपुण्याय ते तथा ॥ ३४॥ अपायुस्तत्क्षणादेव सर्वपापानि पश्यताम् । सक्ताः संयमिनः शश्वत् स्वाध्यायध्यानकर्मणि ॥ ३५ ॥ निशम्य तं प्रदायास्मै प्रसादं मुदितस्ततः । ननाम तां दिशं गत्वा भक्त्या सप्तपदानि सः॥ ३६ ॥ सकान्तो मिलिताशेषबन्धुलोकपरिच्छदः । तत्कालोचितयानेन वन्दनायै चचाल सः ॥ ३७॥ उत्तीर्य दूरतो यानाद्विवेशासौ वनान्तरम् । कूजद्विहङ्गमारावविहितस्वागतक्रियम् ॥ ३८ ॥ प्रदेशं स ततः प्राप यत्राऽऽस्ते यतिनायकः। आसीनोऽशोकवृक्षस्य मूलेऽमलशिलातले ॥ ३९॥ त्रिः परीत्य ततः स्तुत्वा तमन्यांश्च यतीश्वरान् । विनीतात्मा यथास्थानं निविष्टोऽसौ कृताञ्जलिः ॥४०॥ पुण्यांकुरैरिवाऽशेषां कुर्वन् विच्छुरितां सभाम् । धर्मवृद्धिं बभाणाऽसौ यतीशो दशनाञ्शुभिः॥४१॥ ततोऽवादीदयं भक्तिनम्रमूर्तिर्मुनीश्वरम् । मादृशां मुग्धबुद्धीनां दुर्लभं तव दर्शनम् ॥ ४२ ॥ तावदेव जगन्नाथ मोहान्धतमसाऽऽवृतम् । विचरन्ति न ते यावद्भानोरिव वचोऽशवः ॥४३॥ १ वायुः । २ जग्मुः । ३ शब्दैः कृतसत्क्रियम् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102